________________
टोकासहितं । ति। तत्र हि यथा चन्द्रद्वयवचनमनृतं तथा गिरौ चन्द्रवचनमपि विसंवादिज्ञानपूर्वकत्वात् । एकस्मादनृतादपरमनृतपनुबंधि समभिधीयते तेनानुबंधिना मिश्रमनुबंधिमिश्रमिति प्रत्येयं । प्रतिद्वन्द्वि चानुबंधि च प्रतिद्वन्द्वयनुबंधिनी ताभां मिश्र सत्यानृतं चाप्यनृतानृतं चेति यथासंख्यमभिसंबधाद्वाशब्दम्यैवकारार्थत्वादेव व्याख्यातव्यम्। तच्चेक् भगवन् ! जिन! नाथ ! त्वहते त्वत्तो विना वस्तुनोतिशायनेनाभिधेयस्यातिशयेन वचनं प्रवर्त्तमानं किं युक्तं, नैव युक्तमित्यर्थात्तवैव युक्तमेतदिति गम्यते ताहगनेकान्तमेकं नावास्तवं भवति बहते सर्वथैकान्तस्यावस्तुत्वव्यवस्थानात् ।
कथं पुन: किंचिदनतमपि सत्यं सत्यमप्यन्तं किंचि. दऋतपनृतमेवेति भेदोऽनृतस्य स्यादित्यावेदयन्ति । सहक्रमाद्वा विषयाल्पभूरि
भेदेऽनृतंभेदि न चात्मभेदात् । आत्मान्तरं स्याद्भिदुरं समं च
स्याच्चानृतात्मानभिलाप्यता च ॥ ३१॥ टीका-विषयस्याभिधेयस्याल्पभूरिभेदोल्पानल्लविकल्पस्तस्मिन् सति स्यादेवावृतं भेदवत यम्य हि वचनस्याभिधेयमल्पमसत्यं भूरि सत्यं तत्सत्यानृतमिति, सत्यविशेषणेनानृतं भेदि प्रतिपाद्यते । यस्य तु वचनस्याभिधेयमल्पं सत्यमनृतं भूरि तदनृतानृतमिति, अन्तविशेषणेन नृतं । न चात्मभेदादनतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org