________________
५२
युक्त्यनुशासनं ।
क्षभूतस्य विषान्तरस्यापि विषत्वं माभूत्तस्यामृतत्वानुषंगात् । इत्येतदपि न प्रतिकूलं नः । जंगमविषप्रतिपक्षभूतं हि स्थावरविषमत एव विषममृतमिति प्रसिद्धं सर्वथा तस्य विषत्वे विबान्तरमतिपक्षत्वविरोधात् । कथंचिद्विषत्वं क्षीरादेरपि न निवार्यते तदभ्यवहरणानंतरमपि कस्यचिन्मरणदर्शनात् । काचिदविद्या तु विद्यानुकूला यदि कथंचिद्विद्या निगद्येतान्यथानाद्यविद्याप्रतिपक्षत्वायोगात्तदा न किंचिदनिष्टं स्याद्वादिमताश्रयणात्संवृतिवादिमतविरोधात् । स्याद्वादिनां हि केवलज्ञानरूपां परमां विद्यामपेक्ष्य क्षायिकीं क्षायोपशमिकी मतिज्ञानादिरूपापकृष्ट विद्याप्यविद्याऽभिप्रेता नानादिमिथ्याज्ञानदर्शनलक्षणाविद्यापेक्षया तस्यास्तत्प्रतिपक्षभूतत्वाद्विद्यात्वसिद्धेरिति न सर्वथाऽप्यविद्यात्मिका भावना गुरुणोपदिष्टापि विद्यामसूत्यै व्याघाताद् गुरोरपि तदुपदेष्टुरगुरुत्वप्रसंगाद्विद्योपदेशिन एव गुरुत्वप्रसिद्धेः । ततोऽनुपायमेव संविदद्वैतं तवं सर्वप्रमाणगोचरातिक्रांतत्वात् पुरुषाद्वैतवदिति स्थितम् । संप्रत्यवसर प्राप्तमभावैकां तत्रादिमतमनूद्य निराकर्त्तुमारभन्ते सूविर्या:अभावमात्रं परमार्थवृत्तेः सा संवृतिः सर्वविशेषशून्या । तस्या विशेषौ किल बंधमोक्षौ हेत्वात्मनेति त्वदनाथवाक्यम् ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org