________________
टोकासहित। भवत्यविद्या गुरुणोपदिष्टा। अहो त्वदीयोक्त्यनभिज्ञमोहो, ___ यजन्मने यत्तदजन्मने तत् ॥ २४॥
टीका-सकला ह्यविद्या तावदविद्यान्तरप्रमूत्यै प्रसिद्धा लोके सा गुरुणाप्युपदिष्टा भाव्यमाना विद्याप्रमूत्यै भवतीति वदतः सौगतस्य कथमहो भगवन् ! वीर ! तदीयोक्त्यनभिज्ञस्य मोहो न भवेत् ! दर्शनमोहोदयापाये विरुद्धाभिनिवेशासंभवात् । यद्धि निमित्तमविद्य लक्षणमविद्याजन्मने तदेव तस्याः पुनरजन्मने प्रसिद्ध स्यादिति विरुद्धोऽभिनिवेशा स्यात् । नहि मदिरापानं मदजन्मने प्रसिद्धं मदाजन्मने निमिचं भवितुमर्हति । ननु च यथा विषभक्षणं विषविकारकारणं प्रसिद्धमपि किंचिद्विषविकागजन्मने दृष्टं तथा काचिदविद्यापि भाव्यमाना स्वयमविद्य जन्माभावाय भविष्यति विरोधाभावादिति कश्चितः सोऽप्यपालोचितवचनः । अन्यद्धि जंगमविषं भ्रमदाहमूर्छादिविकारस्य जन्मने प्रसिद्ध तदजन्मने पुनरन्यदेव स्थावरविषं तत्प्रतिपक्षभूतमिति विषमादाहरणं । तयविद्यापि संसारहेतुरनादिवासनाममुद्भूताऽन्यैवाविद्यानुकूला, मोक्षहेतुः पुनरनाद्यविद्याजन्मनिटत्तिकरी विद्या नुकूला चान्या तत्प्रतिपक्षभूतत्वादिति साम्यमुदाहरणस्यास्तु विशेषाभावादिति वचनं न परीक्षाक्षम अविद्यापतिपक्षभूताया एवाविद्यायाः संभवाभावाद्विधात्वानुषंगात् । नन्वेवं विषप्रतिप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org