________________
टोकासहित। एवेति प्राप्तं, तथा चोभयदोषानुषंगः सर्वथैकस्य नित्यानिस्यात्मकस्थार्थस्यापतिपत्तिप्रसंगः। दृश्यतयोपगम्यमानस्य च सर्वथाऽनुपलब्धेरभावप्रसंगः तस्यादृश्यत्वप्रतिज्ञाने चादृष्टपरिकल्पनमनुषज्येतेत्यनेकबाघकोपनिपातान प्रमाणनिश्चितोऽय: शासनस्यांजसः स्यादाकाशकेशपाशप्रकाशकशासनवत् तैमिरिकस्येति कथं नयप्रमाणप्रकृतांजसार्थ मदीयं मतं स्यादन्यैरखिलैः प्रवादैः सौगतादिभिः धृष्यमाणत्वात्तत एव न दयादमत्यागसमाधिनिष्ठं सर्वथासंभववाधकस्य जीवस्य दयादिचतुध्यासंभवात् तद्विषयस्य दयादिनिष्ठत्वासिद्धेस्तथा च कथमद्वितीयं सर्वाधिनायकत्वानुपपत्तेरिति वदन्तमिव भगवन्तं विज्ञापयन्त: मूरयः प्रमाणनयमकृतं पारमार्थिकं तत्त्वं साधयन्तिअभेदभेदात्मकमर्थतत्त्वं
तव स्वतंत्रान्यतरत् खपुष्पम् । अवृत्तिमत्त्वात्समवायवृत्तेः
संसर्गहानेः सकलार्थहानिः ॥७॥ टीका--- अभेदो द्रव्यं नित्यं, भेदः पर्यायो नश्वरस्तावात्मानौ यस्य तदभेदभेदात्मकं तव भगवन् ! अर्थतत्त्वं जीवादितत्वं परस्परतंत्रं द्रव्यपर्यायात्मकमित्यभिधीयते अस्माभिने पुनः स्वतंत्रं द्रव्यमानं पर्यायमात्रं वा तदुभयं वा विज्ञाप्यते तस्य खपुष्पसमत्वात, प्रतिपादितक्रमेण संभवबाधकस्यास्माभिरपीष्ठत्वाद्वास्तवत्वानुपपत्तेः, नयप्रकृतस्य प्रमाण
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org