________________
युक्त्यनुशासनं । यते सुनिश्चितासंभवद्धाधकप्रमाणत्वेन सुखादिवत् तस्य तस्य स्तुतिगोचरत्वं प्रसिद्धं भवति । वीरशब्देन वा सर्वस्य स्तुत्यस्याभिधानात, नायुक्तमवधारणार्थ वाशब्दव्याख्यानं महतो महासत्वस्यासहायस्यान्तरारातिनिर्जयनोद्यतस्य पुरुषविशेषस्य शक्तिशुद्धिप्रकर्ष दधानस्य लोके वीरशब्दप्रयोगात् । विशिष्टांमां लक्ष्मी मुक्तिलक्षणामभ्युदयलक्षणांवा रातीति वीर इति व्युत्पत्तिपक्षाश्रयणाद्वा सर्वस्य स्तुत्यस्य संग्रहात् प्रकृतवाक्यव्याख्यानं युक्तमुत्पश्यामः किं विशिष्टं मां वीरमृद्धमानं निश्चिन्द न्ति भवन्तो यतः स्तुतिगोचरत्व निनीषयोद्य भवन्तीति भगवता पृष्टा इव सूरयःप्राहुः-विशीर्णदोषाशयपाशबन्धमिति । अत्राज्ञा नादिदोषस्तस्याशयः संस्कारः पूर्वो दोष प्राशेतेऽस्मिन्निति व्युत्पत्तेः । दोपहेतुर्वा ज्ञानावग्णादिकर्मप्रकृतिविशेषोदय इति भावकर्मणो द्रव्यकर्मणश्च वचनं, दोषश्चाशयश्च दोषाशयौ तावेव पाशो ताभ्यां बन्धः पारतंत्र्यं विशीर्णो दोषाशयपाशवं न्धोऽस्येति विग्रहः । तदैतेनैतदुक्तं भवति, यस्मात्यां विशीर्णदोषाशयपाशवन्धं वयं निरणैष्म तस्माद्वर्धमानं स्तुतिगोचरत्वं निनीषवः स इति। कथमेवंविधं मां निरणैषुर्भवन्त इत्याहुर्यतः कीा पहत्या भुवि वर्द्धमानं त्वां निरणैष्म । कीर्त्यन्ते जीवा. दयस्तत्वार्था यया सा कीर्ति भगवतो वाक्, महती युक्तिशास्त्राविरोधिनी तया । भुवि समवशरणभूमौ साक्षात्परंपरया सकलपृथिव्यां परमागमविषयभूतां वर्द्धमानः पुष्यनिखिलप्रेक्षाव जनमनांसि परापराणि व्याप्नुवन्नित्यभिधीयते । सर्वत्र स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org