________________
टीकासहितं ।
परमार्थतः स्वव्यवसायात्मकमेव तत्वज्ञानं चेतनत्वात् स्वप्नेन्द्रजालादिज्ञानवदित्यपरस्तस्यापीदमनुमानज्ञानं स्वव्यवसायार्थस्य व्यवसायकमव्यवसायकंवा, व्यवसायकं चेत् सिद्धं स्वार्थव्यवसायात्मकं, तद्वत्सर्वतत्त्वज्ञान तथा स्यात् । अव्यवसायकं चेदसाधनांगं व्यर्थत्वात् । संव्यवहारतोऽनाधविद्योदयकल्पितात्तद्व्यवसायान्ममिति चेत् तर्हि परमार्थतो नास्मादनुमानात्स्यव्यवसायात्मकं साध्यं सिद्धयेदिति। यत्किचनभाषी स्वव्यवसायात्मकज्ञानैकान्तवादी स्वार्थव्यवसायास्मनो ज्ञानस्याक्रियार्थिभिः संव्यहारिभिरादरणीयत्वात , प्रकाश्याप्रकाशकस्य पदार्थस्य प्रकाशार्थिभिरनादरणीयत्वातदलमतिप्रसंगेन प्रपंचतः प्रमाणपरीक्षायां प्रमाणस्य तत्वज्ञानस्य स्वार्थव्यवसायात्मकस्य परीक्षितत्वात् ।
ननु च त्वां बर्द्धमानं वीरं स्तुतिगोचरत्वं निनीषवः स्मो वयमद्येति वाक्यं न युक्तं व्याख्यातुं, त्वां वा वामेव वीरमेवेति वाशब्देनावधारणार्थेन ततोऽन्यतीर्थकासमूहस्य स्तुत्यस्याभिमतस्य स्तुतिगोचरत्वरवच्छेदानुषंगात् तथा च सिद्धान्तविरोध इति कश्चित् । सोऽपि न विपश्चित् , म्तोतुरभिप्रायापरिज्ञानात्तस्य ह्ययमभिप्रायोन्त्यतीर्थकरस्यैवैदंयुगीनतीर्थप्रकाशनप्रधानस्य वर्द्धमानत्वेन स्तुतिगोचरत्वसमर्थने सकलस्य स्तुत्यस्य सिद्धान्तप्रसिद्धस्य स्तुतिगोचरत्वं समर्थितं भवत्येव वर्द्धमानत्वस्य तत्साधनस्याविशेषात् यस्य यस्य वर्द्धमानं प्रवृद्धं मानं प्रमाणं केवलज्ञानं परमगुरोः श्रुतज्ञानादि वापरगुरोनिश्ची
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org