________________
पत्पनुशासन। बा तदुभयमात्रस्य वा परमात्मोपायस्यासंभवात्, सकलसंसारकारणं हि मिथ्यादर्शनज्ञानचारित्रलक्षणं तत्कथं ज्ञानमानाभिवर्तते मिथ्याज्ञानस्यैव ततो निवृत्तः, न च मिथ्याज्ञाननिवृत्तौ रागादिदोषादिकं मिथ्याचारित्रं निवर्तते; समुत्पन्नतत्त्वज्ञानस्यापि रागादिदोषसद्भावसिद्धः । प्रक्षीणमोहासत्वज्ञानानितिरिति चेत्, स एव मोहप्रक्षया कुतः स्यात् । तस्वज्ञानातिशयादेवेति चेत् कः पुनस्तत्त्वज्ञानातिशयः प्रक्षीणमोहत्वमिति चेत्, परस्पराश्रयः सति मोहमक्षये तत्त्वज्ञानातिशयः सति वाऽतिशये मोहप्रक्षय इति । साक्षात्सकलपदार्थपरिच्छेदिवं तत्त्वज्ञानातिशय इति चेत् । तत्कृतः सिद्धयेत् ? धर्मविशेषादिति चेत् । सोऽपि कुतः स्यात् ? समाधिविशेषादिति चेत्, स एव समाधिविशेषस्तत्त्वज्ञानादन्यो वा ? तत्वज्ञानमेव स्थिरीभूतं समाधिरिति चेत्, तकिमागमज्ञानं योगिज्ञानं वा? थवागमज्ञानं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां कार्यकारणभावविषयं तदा न्यायदर्शनविदां तदस्तीति धर्मविशेषं जनयेत् । स च योगिज्ञानमिति तद्भव एव मुक्तिप्रसंगः। अथ योगिज्ञानं समाधिविशेषस्तदेवेतरेतराश्रयः स्यात्-सति योगिज्ञाने स्थिरीभूते समाधिविशेषे धर्मविशेषः, तस्माच्च यथोक्तः समाधिविशेष इति नैकस्यापि प्रसिद्धिः। यदि पुनस्तत्त्वज्ञानादन्य एव समाधिविशेषस्तदा स कोऽन्योऽन्यत्र सम्यक्चारित्रात् ? | सम्यक्चारित्रोपहितादेव तत्त्वज्ञानात्तत्त्वश्रद्धानाविनामाविनः संसारकारणत्रयस्य परिक्षयः सिद्धयेत् , न तत्त्वज्ञानादेव केवला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org