________________
टीकासहितं ।
स्वयं स्तुत्यैरपि त्रिदशमुख्यैः सुरेन्द्रैर्मुनिमुख्यैश्च गणधरदेवादिभिः प्रणिहितैरेकाग्रमनस्कैरिति हेतुहेतुमद्भावेन पदघटना विधेया । नहि दुरितपरसेनाभिविजयो वीरत्वमन्तरेण संभवति, अवीरेषु वीर्यातिशयशून्येषु तदघटनात्, यतोऽयं वीरत्वेनानंतवीर्यस्वलक्षणे साध्ये हेतुर्न स्यात् । न चायं कर्मरिपुसेनाभिविजयो जिनस्यासिद्ध एव ।
" त्वं शुद्धिशक्तयोरुदयस्य काष्ठां तुलाव्यतीतां जिन ? शान्तिरूपाम् । अवापिथ ब्रह्मपथस्य नेता महानितीयत्मतिवक्तुमीशाः " ॥
इत्यनेन तस्य साधितत्वात् । तथा महावीरत्वे सकलवीराधिपतित्वलक्षणे साध्ये श्रयः पदाधिगतस्यापि हेतुत्वमुपपन्नमेव तदंतरेण तदनुपपत्तेः । न च भगवतः श्रेयः पदाधिगतत्वमसिद्धं ब्रह्मपथस्य नेतेत्यनेन तस्य साधनात् । तथाऽन्येषां स्तुत्यैस्त्रिदशमुख्यैर्मुनिमुख्यैश्च प्रणिहितैरनन्यमनोवृत्तिभिः स्तुत्यत्वे साध्ये महावीरत्वं हेतुरुपपद्यत एवान्यस्य तैरस्तुत्यस्य महावीरत्वानुपपत्तेरिति यः स्तुतिगोचरत्वं निनीषुरावा भगतं वीरमासीत् (१) तेन स्तुतो भगवानेवेति भगवत एव पथि भक्ति मार्थितवान् तस्याप्रतिनिधित्वात्तदाराधनामाप्तौ कर्मरिपुसेनाभिविजयस्य तत्कार्यस्य संप्राप्तिसिद्धेश्व श्रेयःपदाधिगमोपपत्तेर्जिनत्वस्योपमेयस्यावश्यंभावित्वात् । कथं पुनरसौ भगवतः पन्थाः सम्यग्दर्शनज्ञानचारित्रात्मकोऽप्रतिनिधिः सिद्ध इति चेत् । तदपरस्य ज्ञानमात्रस्य वैराग्यमात्रस्य
Jain Education International
3
For Private & Personal Use Only
१७६
www.jainelibrary.org