________________
युक्त्यनुशासनं ।
नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः ॥ इति तथाऽन्यः परमात्मवादी ब्रूयात्परमब्रह्मण एव तीर्थ सचौदयं न परेषां नैरात्म्यवाद्यादीनां तत्र संशयहेतुत्वात् । तथा चोक्तम्
A
यो लोकाब्ज्वलयत्यनत्यमहिमा सोऽप्येष तेजोनिधियस्मिन्सत्यवभाति नासति पुनर्देवोंऽशुमाली स्वयम् । तस्मिन्बोधमयप्रकाशविशदे मोहान्धकारापहे,
येऽन्तर्यामिनि पुरुषे प्रतिहताः संशेरते ते हताः ॥ एवमन्योपीश्वरवादीश्वरादेरेव तीर्थ सर्वोदयमिति स्याद्वादितीर्थमनेकधा द्वेष्टि । सोऽपि -
कामं द्विषन्नप्युपपत्तिचक्षुः समीक्षतां ते समदृष्टिरिष्टम् । त्वयि ध्रुवं खंडितमानश्रृंगो भवत्यभद्रोऽपि समन्तभद्रः ॥ ६३ ॥
टीका - कामं यथेष्टं स्वदुरागमवासनावशीकृतान्तःकरणः सर्वथैकान्तवादी द्विषन्नपि तवानेकान्तामृतसमुद्रस्य तीर्थ दर्शन मोहोदयाकुलितबुद्धिस्ते तवेष्टमनेकान्तात्मकपन्तर्वहिश्च जीवादितचं समीक्षतां परीक्षतां समदृष्टि' सन्मध्यस्थवृत्तिरुपपतिचक्षुर्भूत्वा, मात्सर्यचक्षुषस्तत्वसमीक्षायामनधिकारादसमहटेव रागद्वेषकलुषितात्मन इत्युभयविशेषणवचनमुपपत्तिचक्षुः सदृष्टिरिति स तथा समीक्षमाणस्तवेष्टं शासनं त्वय्येव भगवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org