SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। १७३ तेन यदुक्तं धर्मकीर्तिना भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादनेकमेकं च रूपं तेषां न विद्यते ॥ इति । तत् स्याद्वादिनामभिमतमेव । तदेतत्तु समायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिंत्यन्ते विशीर्यन्ते तथा तथा ॥ इत्यादिवत् । परस्परनिरपेक्षाणां केनचिद्रूपेणार्थानां व्यवस्थापयितुमशक्यत्वात् । ततः सर्वापदामन्तकरं तवैव परमागमलक्षणं तीर्थ सकलदुर्नयानामंतकरत्वात्तत्कारणशारीरिकमानसिकविविधदुःखलक्षणानामापदामन्तकरत्वोपपत्तः। मिध्यादर्शननिमित्ता हि सर्वाः प्राणिनामापद इति सर्वमिथ्यादर्शनानामन्तकरं तीर्थ सर्वापदामन्तकरं सिद्धं । तत एव निरंतं केनचिन्मिथ्यादर्शनेन विच्छेत्तुपशक्तेरविच्छेदत्वसिद्धेः। तथा सर्वोदयं तीर्थमिदं तवैव सर्वेषामभ्युदयकारणानां सम्यग्दर्शनज्ञानचारित्रभेदानां हेतुत्वादभ्युदयहेतुत्वोपपत्तेः। सर्व उदयोऽभ्युदयोऽस्मादिति सर्वोदयं तीर्थमिदं तवैवेति वचनात् । परेषां तदसंभवः सिद्ध एव । ननु परोऽप्येवं ब्रूयान्नैगम्यवादिन एव तीर्थ सर्वोदयं सर्वापदामन्तकरं न पुनः परेषामिति । तदुक्तम्साहंकारे मनसि न शमं याति जन्मप्रबंधो नाहंकारश्चलति हृदयादात्मदृष्टौ च सत्याम् । अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy