________________
२०८
युक्त्यनुशासन। सर्वार्थप्रतिपादने तेनैव पर्याप्तत्वात्पदान्तरस्य प्रयोगो वा पुनरुक्तत्वमनिवार्यमिति केचिन, नान्पति मूग्यः प्राहुः-- स्यादित्यपि स्याद् गुणमुख्यकल्पै
कान्तो यथोपाधिविशेषवीक्ष्यः । तत्त्वं वनकांतमशेषरूपं
द्विधा भवार्थव्यवहारवत्त्वात् ॥१७॥ टीका-अस्यायपर्थः, स्यादित्यपि निपातो गुणमुख्यकल्पैकान्तः स्यात्, गुणश्च मुख्यश्च गुणमुख्यौ स्वभावौ ताभ्यां कल्प्यन्न इति गुणमुख्यकल्पाः, गुणमुख्यकल्पा एकान्ता यस्य सोऽयं गुणमुख्यकल्पैकान्तः स्याद्भवेन्नयादेशादित्यभिप्रायः । शुद्धद्रव्यार्थिकप्रधानभावादस्तित्वैकान्तो मुख्यः, शेषा नास्तित्वाद्यैकान्ता गुणाः, प्रधानभावेनानपणादनिराकरणाच नास्तित्वादिनिरपेक्षस्यास्तित्वस्यासंभवात् खरविषःणवत् । स्यच्छब्दस्तु तद्योतनः प्रधानगुणभावेनैव अवेत्तथैवास्तीति पदेनाभिधानात् पदान्तरेण यथाभिधानं निपातपदेन द्योतयितुं शक्यत्वात् । व्यवहारनयादेशात्तु नास्तित्वैकान्ता मुख्या: म्युरस्तित्वैकांतस्तु गुणः प्राधान्येनाविवक्षितत्वात्तदतिक्षेपाच्च तत्रास्तित्वनिराकरणे तु नास्तिस्वादिधर्माणामनुपपत्तेः कूर्मरोमादिवत् । नास्तित्वादिभिरपेक्षमाणं तु वस्तुनोऽस्तित्वं स्याच्छब्देन धोत्यत इति प्रधानगुगाभावेनैव स्यादिति निपातः कल्पयत्येकांताच्छुद्धनयादेशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org