________________
टोकासहितं ।
१०
पुनः प्रयोगमर्हति तदर्थे विवादाभावात् तद्विवादे तु क्रमशस्तत्मयोगेऽपि न कश्चिदोषः प्रतिभाति प्रतिपाद्यस्यैकस्यापि सप्तधाविप्रतिपच्चिसद्भावात् । तावत्कृत्वः संशयोपजननात्तावज्जिज्ञासो - पपत्तेस्तावदेव च प्रश्नवचनमवृत्तेः "प्रश्नवशादेकवस्तुन्य विरोधेन विधिप्रतिषेधकलना सप्तभंगीति" वार्त्तिककारवचनात् । नानाप्रतिपाद्यजनानिवैकप्रतिपाद्यजनमपि प्रतिपादयितुमनसां सप्तविकल्पवचनं न विरुध्यत एव । ननु च स्यादिति निपातोऽनेकांतस्य द्योतको वाचको वा, गुणभावेन भवेत्प्रधानभावेन वा ? तत्र यदि गुणकल्पनया द्योतकोऽभिधीयते तदा तद्वाचकपदान्तरेणाऽपि गुणकल्पनयैव वाच्यत्वप्रसंगः सर्वत्र पदाभिधेयस्यैव निपातेन द्योतयितुं शक्यत्वात्, तदनुक्तस्यार्थस्य तेन द्योतने तस्य वाचकत्वप्रसक्तस्तत्प्रयोगसामर्थ्यात्तदर्थप्रतिपत्तेः ।
स्यान्मतमेतत् - अस्तीतिपदेन निपातेन तावदस्तित्वं प्रधानकल्पनयोच्यते स्यादितिपदेन निपातेन नास्तित्वादयो धर्मा द्योत्यंत इति प्रधान गुणकल्पनयाऽनेकान्तप्रतिपत्तिरेवकारप्रयोगादन्यव्यवच्छेदसिद्धेरिति । तदप्यसम्यक्; अस्तीतिपदेनानुक्तानां नास्तित्वादिधर्माणां स्याच्छब्देन द्योतने सर्वार्थद्योतनप्रसंगात् । सर्थानामेवकारेण व्यवच्छेदान्न तद्द्योतनप्रसंग इति वचनं न युक्तिमत् नास्तित्वादीनामपि तेन व्यवच्छेदादनुद्योतनप्रसंगात्तनो न द्योतकः स्याच्छन्दोऽनेकांतस्य युज्यते नाऽपि वाचकः स्यादिति निपातप्रयोगादेव तत्प्रतिपत्तेरस्तीत्यादिपदप्रयोगानर्थक्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org