________________
१०५
टोकासहितं। तस्यापाशयोऽभिप्रायस्तथा प्रतिज्ञाशयः प्रतिपादयितुरभिप्रायस्तस्मात् प्रतिपदं स्यादिति निपातस्याप्रयोगः शास्त्रे लोके च प्रतीयते एवकाराप्रयोगवत् । शास्त्रे तावत् सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यादौ न कचित्स्यात्कार एवकारो का प्रयुज्यते, शास्त्रकारैरप्रयुक्तोऽपि विज्ञायते तेषां तथा प्रतिज्ञाशयसद्भावात् सामर्थ्यतो वा प्रतिषेधस्य सर्वथैकान्तव्यवच्छेदस्य युक्तिः स्याद्वादिनामन्यथा तदयोगात, न हि स्यात्कारप्रयोगमन्तरेणानेकान्तात्मकत्वसिद्धिरेवकारप्रयोगमन्तरेण सम्यगेकान्तावधारणसिद्धिवत् । “सदेव सर्व को नेच्छेत्स्वरूपादिचतुष्टयाद्" इत्यादौ स्यात्काराप्रयोग इति न मन्तव्यं, म्वरूपादिचतुष्टयादिति वचनात्स्यात्कारार्थप्रतिपत्तेः, "कथं चित्ते सदेवेष्टं' इत्यादौ कथंचिदिति वचनात्तत्प्रयोगवत, तथा लोके घटमानयेत्यादिषु तदप्रयोगः सिद्ध एव । इत्येवं जिननाग ! जिनकुंजर ! त्वदीया दृष्टिः परैः सर्वथैकान्तवादिभिरप्रधृष्या प्रमाणनयसिद्धार्थत्वात् । परेषां भावैकान्तवादिनां प्रधर्षिणी च त्वदीया दृष्टिरिति संबंधः । तेषां सवथाsविचार्यमाणानामप्रयोगः-यथा चाभावैकान्तादिपक्षा न्यःण प्रतिक्षिप्ता देवागमाप्तमीमांसायां तथेह प्रतिपत्तव्या इत्यलमिह विस्तरेण । - कथं पुनर्विपाद्यसंधिश्च पदस्याभिधेयः स्यादिति स्वयं मुरयः प्रकाशयन्तिविधिनिषेधोऽनभिलाप्यता च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org