________________
१०४
युक्त्यनुशासनं। टीका-तस्य विरोधिनो धर्मस्य द्योतना स्यादिति निपातः स्याद्वादिभिः संप्रयुज्यते । यद्येवं विध्यार्थिनः प्रतिषेधेऽपि प्रतिभवेत् द्वयोरपि प्रकाशनप्रतिपादनादिति न मन्तव्यं गुण इति वचनात् । विधौ प्रयुज्यमानं पदमस्तीति प्रतिषेधं गुणभावेन प्रकाशयति स्यादिति निपातेन तथैव द्योतनात् । तथा विपाद्यस्य विपक्षभूतस्य धर्मस्य संधिश्व स्यादंगभावादंगस्यावयवस्य भावादवयवत्वादित्यर्थः । सर्वथाऽप्यवाच्यता तु न युक्ता तस्याः श्रायसलोपहेतुत्वान्निश्रेयसतत्त्वस्याप्यवाच्यत्वात्तदुपायतत्त्ववत् । न चोपेयस्योपायस्य वचनाभावे तदुपदेशः संभवति, न चोपदेशाभावे श्रायसोपायानुष्ठानं संभवति, नाप्युपायानष्टानानुपपत्तौ श्रायसमित्यवाच्यता श्रायसलोपहेतु: स्यात्ततः स्याकारलाञ्छनं पदमेवकारोपहितमर्थवत् प्रतिपत्तव्यमिति तात्पर्यार्थः । - नन्वेवं सर्वत्र स्यादिति निपातस्य प्रयोगप्रसंगात्पतिपदं तदप्रयोगः शास्त्रे लोके च कुतः प्रतीयत इति शंका प्रतिनति सूरयःतथा प्रतिज्ञाशयतो प्रयोगः
सामर्थ्यतो वा प्रतिषेधयुक्तिः। इति त्वदीया जिननाग ! दृष्टिः
पराप्रधृष्या परधर्षिणी च ॥४५॥ टीका-तथा स्याज्जीव एवेतिप्रकारेण या प्रतिज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org