________________
युक्त्यनुशासन।
अर्थः प्रकरणं लिंग शब्दस्यान्यस्य सनिधिः ।
सामान्यवाचिशब्दानां विशेषे स्थितिहेतवः ॥ इति । तदप्यनालोचिताभिधानं । अर्थप्रकरणादिभिरपि यद्येवकारार्थे विशेषे स्थितिः क्रियते तदैवकारोपहितपदप्रयोगपक्षमाविदूषणगणः परिहर्तुमशक्यः । अथ ततोऽन्यत्र विशेष स्थितिहेतवोऽर्थप्रकरणादयस्तदाऽनेवकारपदप्रयोग एव समर्थितः स्यात् । तत्र चोक्तो दोषः।
स्यान्मतं-कचिदेवकारोपहितं पदं कचिदनेवकारं यथा पूर्वावधारणे पूर्व पदमेवकारोपहितमुत्तरमनेवकारं, उत्तरावधारणे पुनरुत्तरं पदमेवकारोफ्लक्षितं पूर्वमनेवकारमिति। तदप्यसत् पक्षद्वयाक्षिप्तदोषानुषंगात् । यदि पुनरस्तीति पदेनामिधेयमस्तित्वमनेवकारेणापि नान्येन तत्प्रतिपक्षभूतेन नास्तित्वेन च्युतं भवति, तस्य तदभेदित्वात्, सत्वाद्वैतवादिनोऽस्तित्वव्यतिरेकेण नास्तित्वासंभवादन्यत्रानाद्यविद्योपप्लवात् । तत्सर्वथा शून्यवादिनो नास्तित्वव्यतिरेकेणास्तित्वे च वर्त्तनेनात्महीनं प्रसंजनयितुं शक्यमिति मतं तदापि दूषण
माहुः स्वामि
- "विरोधि चाभेद्यविशेषभावात्” इति । ___नास्तित्वमस्तित्वात् सर्वथाप्यभेदि येनाभिधीयते तस्य तद्विरोधस्य भेदवद्भवेत् सत्ताद्वैतेऽभिधानाभिधेययोविरोधात् । कस्माद् ? अविशेषभावादविशेषत्वात् सकलविशेषाणामभावा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org