________________
टोकासहित।
१०१ भावे स्वरूपोपादानानुपपत्तेः कुटस्याकुटापोहनाभावे स्वात्मोपादानासंभवात् । नास्तित्वस्य चास्तित्वच्युतौ शून्यवादानुषंगः । न चाभावो भावमन्तरेण संभवतीति शून्यपप्यात्महीनमेव स्यात्, शून्यस्य स्वरूपेणाऽप्यभावे पररूपापोहनासंभवात् पटस्य स्वरूपोपादानाभावे शश्वदपटरूपापोहनासंभवात्, स्वपररूपोपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुनो वस्तुत्वस्य । नन्वेवं वस्तुनोऽध्यवस्तुपोहनेन भवितव्यं वस्तुत्वोपादानवत्तथा चावस्तु किचिदभ्युपगन्तव्यमिति चेत् , न वस्तुन एव परद्रव्यक्षेत्रकालभावचतुष्टयापेक्षायामवस्तुत्वसिद्धः सकलस्वरूपशून्यस्यावस्तुनोऽप्यसंभवात् ।
तथा चोक्तम्
वस्वेवावस्तुतां याति प्रक्रियाया विपर्ययादिति ततो न किंचिद्वस्तुप्रतिपक्षभूतावस्तुवर्जितमात्मानं लभते यतः सर्वमन्यच्युतमात्महीनं भवेत् । सुदूरमप्यनुसृत्य कल्यचिदिष्टस्य तत्वस्यात्महीनत्वमनभ्युपगच्छतान्यहीनत्वं नानुमन्तव्यं । तदप्यननुमन्यमानेन नान्यतराप्रयोगोऽनुमन्तव्यः, तं चाननुगच्छतान पर्यायभावः प्रत्येयस्तमप्रतीयता नियमद्वयेऽपिव्यावृत्यभावो नाभ्यनुज्ञातव्यः । तमप्यनभ्यनुजानता नानेवकारं पदमंगीकर्तव्यमिति सर्व पदमेवकारोपहितमेव वक्तव्यं तत्र चोक्तो दोषः । नन्वेवकारप्रयोगाभावेऽपि प्रतिपत्तुरर्थप्रकरणलिंगशब्दांतरसन्निधिसामर्थ्यात्सामान्यवाचिनामपि विशेषे स्थितिविष्यतीति तथैव व्यवहारस्य प्रवृत्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org