SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २२६ भयहरेत्यपरनामकं नमिऊणस्तोत्रम् अत्र च स्तवे यद्यपि सलिला-ऽनलादिजानि षोडश भयानि प्रवचने प्रसिद्धानि तथाऽपि यथासम्भवं क्वचित् कस्यचिदन्तर्भावे 'रोग-जल' इत्यादिवश्यमाण(अष्टादशोगाथाक्रमेण अष्टावेव तानि कवेर्विवक्षितानि । तत्र 'यथोद्देशं निर्देशः' इति न्यायादादौ युगलकेन रोगभयापहारितालक्षणं भगवतो माहात्म्यमुपवर्णयन्नाह सडियकरचरणनहमुह-निबुड्डनासा विवन्नलायन्ना । कुट्ठमहारोगानल-फुलिंगनिद्दड्डसवंगा ॥ ते तुह चलणाराहण-सलिलंजलिसेयवुड्डियच्छाया। वणदवदवा गिरिपा-यव व पत्ता पुणो लच्छि ॥ २-३॥-युग्मम् [शटितकरचरणनखमुखनिमग्ननासा विपन्नलावण्याः। कुष्ठमहारोगानलस्फुलिङ्गनिर्दग्धसर्वाङ्गाः॥ ते तव चरणाराधनसलिलाञ्जलिसेकवर्धितच्छायाः। वनदवदग्धा गिरिपादपा इव प्राप्ताः पुनर्लक्ष्मीम् ॥] ने चायं नियमो यत् प्रथममुद्देश (स्ततो निर्देश इति, अन्यथाऽप्याचार्यप्रवृत्तेरुपल. म्भात) इति । शैली (चेयं) आचार्यस्य, भक्तामरस्तवेऽप्यवी(?)क्षणात् । करौ च इत्यादि चतुर्णा द्वन्द्वैकत्वे शटितं-विशीर्ण कर-चरण-नख-मुखं येषां ते तथा, तथा 'निबुड्ड'त्ति निमग्ना नासा येषां ते तथा, ततो विशेषणकर्मधारयः। विपन्नं-विगतं विशीर्ण वा लावण्यं येषां ते तथाभूताः । कुष्ठं प्रसिद्धं तदेव यो महारोगः सन्तापजनकत्वात् अनल इव कुष्ठमहारोगानलः तस्य स्फुलिङ्गा इव स्फुलिङ्गा:-पीडोद्भवप्रकारास्तैर्निर्दग्धानि सर्वाणि उक्ताङ्गातिरितानि अपि अङ्गानि येषां ते तथा, अपेर्गम्यमानत्वात् ॥ तेऽपि प्राणिनः तव-श्रीपार्श्वस्य चरणयोः आराधना सैव सलिलाञ्जलिस्तेन करणभूतेन सेकः-सेचनं तेन का वर्धिता छायाशोभा येषां ते तथा सन्तः प्राप्ताः पुनर्लक्ष्मी-आरोग्यसम्पदम् । उपमानमाह-वन(दव)दग्धा गिरेः पादपास्ते इव, केषाश्चित् पुनः प्रतिक्षणं पाटवोद्भवः । वृक्षपक्षे तु किसलयादिक्रमेणोभवा(वोs)भिमुख्यः (लक्ष्यः?)। अन्येषामपि रोगाणां भवदुपासनात एव उपशम इति सर्वरोगसङ्ग्रहार्थ रोगानलस्फुलिङ्गदग्धसर्वाङ्गा इति योग्यम् । 'कुट्ठमहा' इति रोगिणामेव विशेषणं, कुषितं-रोगैरेव निष्कर्षितं महा-तेजो येषां ते, सर्वरोगपक्षे च शद्धातोरवसादनेऽपि प्रवृत्तेः शटितम्-अवसन्नं अकिञ्चित्करं करादि येषां ते तथा, निबुड्डने-निमजने आशाआकाटा येषां ते, मर्तुकामा इत्यर्थः ॥२-३॥ 'वर्धितोत्साहाः' इत्यर्थः 'वुद्विउच्छाहा' इति पाठः क्वचित् । २०निमजनाशाः विवर्णलावण्याः' इत्यपि सम्भवति। ३ 'कुषितमहाः (whose luster has faded) रोगा' इत्यपि घटते। ४करादीनामननुक्रमादारेकेयं समाधीयते। ५ विवर्ण' इति स्न-पाठः। ६ 'प्रापुः' इति क-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy