SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् २१५ 'स्व' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । कं कर्मतापनम् ? 'माम्' । कथम् ? 'अद्य' । कस्मात् ? 'भयदव्यसनाम्बुराशेः' भयं ददातीति भयदः, व्यसनानां - आपदां अम्बुराशिः व्यसनाम्बुराशिः, भयदश्चासौ व्यसनाम्बुराशिश्च भयदव्यसनाम्बुराशिस्तस्मात् । मां किम्भूतम् ? 'सीदन्तम्' । त्वं मां पुनीहि - पवित्रय । 'पुनीहि ' इति क्रियापदम् । कः कर्ता ? 'लम्' । कं कर्मतापन्नम् ? 'माम्' ॥ देवेन्द्रैर्वन्द्यः देवेन्द्रवन्द्यः, तस्य सम्बोधनं हे देवेन्द्रवन्द्य ! । विदितं - ज्ञातं अखिलानां वस्तूनां सारं येन सः, तस्य सम्बोधनं हे विदिताखिलवस्तुसार ! । संसारं तारयतीति संसारतारकः, तस्य सम्बोधनं ( हे संसार ० ) । हे विभो ! हे स्वामिन्! | भुवनेषु अधिको नाथः, भुवनाधिनाथः, तस्य सम्बोधनं हे भुवनाधिनाथ ! । 'त्रै पालने' (सिद्ध० धा० ) धातुः 'पञ्चमी स्व' ( सिद्ध० ३ - ३ - ८ ) शब् आय् त्रायस्वेति सिद्धम् । हे देव ! दीव्यतीति देवस्तस्य सम्बोधनम् । करुणाया इद इव करुणाइदः तस्य सम्बोधनम् । 'पूगश् पवने' (सिद्ध० धा० ) धातुः 'पञ्चमी हि' (सिद्ध० ३ - ३ - ८), 'ऋयादेः' (सिद्ध० ३-४-७९), श्ना ‘एषामीर्व्यञ्जनेऽदः ' ( सिद्ध०४ - २ - ९७ ) आकारस्य ईकार:, पुनीहि इति जातम् । 'षट्टं विशरणगत्यवसादनेषु' (सिद्ध० धा० ) षद्धातुः षः सः ० ' ( सिद्ध० २-३-९८ ) इति षस्य सः, शतृप्रत्ययः शबू 'श्रौतिकृबुधिवु ० ' ( सिद्ध० ४ - २ - १०८ ) इति सूत्रेण सीद् आदेशः, 'लुगस्यादेत्यपदे' (सिद्ध० २ - १ - ११३ ) अलोपः पुनरप्यलोपः, 'ऋदुदितः' ( सिद्ध०१-४-७० ) अनोऽन्तः, अमि सीदन्तं इति सिद्धम् । इत्येकचत्वारिंशत्तमकाव्यार्थस्वरूपं प्ररूपितम् ॥ ४१ ॥ Oh object of worship for the lords of gods! Conversant with the essence of every object! Saviour from this worldly existence (the ferryman that enables to cross the ocean of existence)! Pervader of the Universe! Ruler of the world! save me, oh God! oh reservoir of compassion! purify me who am now-a-days sinking in the terrifying sea of sufferings. ( 41 ) 30 ॐ ॐ यद्यस्ति नाथ ! भवदंसिरोरुहाणां भक्तेः फलं किमपि सन्ततिसञ्चितायाः । तन्मे त्वदेकशरणस्य शरण्य ! भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ १ 'सन्ततसचितायाः' इति पाठान्तरं वृत्तिकारमते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy