SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ कल्याणमन्दिरस्तोत्रम् Even after having attained as a refuge Thy lotus-feet, which are the resting -place of innumerable exellences, which are an object fit to be resorted to and the which has destroyed the famous prowess of foes (like attachment or which has destroyed enemies and which is well-known for purity), if I am lacking in the profound religious meditation, oh Purifier of the universe (or pure in the worlds) ! I am fit to be killed and hence alas, I am undone. ( 40 ) 法 34 3 आई देवेन्द्रवन्द्य ! विदिताखिलवस्तुसार ! संसारतारक ! विभो ! भुवनाधिनाथ ! | त्रायस्व देव ! करुणाद! मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ २१४ क० वृ० - हे 'देवेन्द्रवन्द्य !' सुरेन्द्रस्तुत्य ! | वन्दनार्हो वन्द्यः, देवानामिन्द्रा देवेन्द्राः 'तत्पुरुषः', देवेन्द्रैर्वन्द्यो देवेन्द्रवन्द्यः 'तत्पुरुषः' तस्य सम्बोधनम् । हे 'विदिताखिलवस्तुसार!' हे ज्ञात निखिलवस्तुपरमार्थ ! | अखिलानि च तानि वस्तूनि चाखिलवस्तूनि 'कर्मधारयः', अखिलवस्तूनां सारः अखिलवस्तुसारः ' तत्पुरुषः', विदितोऽखिलवस्तुसारो येन स विदिता खिलवस्तुसारः तस्य सम्बोधनं 'बहुव्रीहिः । " सारो मज्जस्थिरांशयोः । बले श्रेष्ठे च" इत्यनेकार्थे (हैमे का० २, श्लो० ४७२ ) । हे 'संसारतारक !' । तारयतीति तारकः, संसारात् तारकः संसारतारकः तस्य सम्बोधनं 'तत्पुरुषः' । हे 'विभो !' । हे 'भुवनाधिनाथ !' हे जगन्नाथ ! | अधिकश्चासौ नाथश्च अधिनाथः, भुवनानामधिनाथो भुवनाधिनाथः ' तत्पुरुषः' तस्य सम्बोधनम् । हे 'देव !' । हे 'करुणाइद !' हे कृपापरनद ! । करुणाया हूदः करुणादः 'तत्पुरुषः तस्य सम्बोधनम् । सप्तापि सम्बोधनपदानि । अद्य त्वं मां त्रायस्वेत्यन्वयः । कर्बुक्तिः । ' त्रायस्व' रक्ष । किंविशिष्टं माम् ? 'सीदन्तं' विषीदन्तम् । कस्मात् ? 'भयदव्यसनाम्बुराशेः' भयोत्पादकविपत्तिसमुद्रात् । व्यसनमेव अम्बुराशिर्व्यसनाम्बुराशिः 'कर्मधारयः', भयं ददातीति भयदः 'तत्पुरुषः ', भयदश्चासौ व्यसनाम्बुराशिश्च भयदव्यसनाम्बुराशिः 'कर्मधारयः' तस्मात् । " व्यसनं निष्फलोद्यमे । दैवानिष्टेऽफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे" इत्यनेकार्थे ( है मे० का ० ३, श्लो० १००७१००८ ) । चशब्दोऽध्याहार्यः । च- पुनम वं पुनीहि - पवित्रीकुरु । इत्येकचत्वारिंशत्तमवृत्तार्थः ॥ ४१ ॥ मा०वि० – देवेन्द्रेति । हे देवेन्द्रवन्द्य ! हे 'विदिताखिलवस्तुसार! हे संसारतारक ! हे विभो ! हे भुवनाधिनाथ ! हे देव ! हे करुणाइद । त्वं मां त्रायस्व - पालय । १ 'कृपानद इति घ- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy