SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २१६ कल्याणमन्दिरस्तोत्रम् क० वृ०-हे नाथ ! भवदंहिसरोरुहाणां सन्ततिसञ्चिताया भक्तेः फलं किमपि यद्यस्तीत्यन्वयः। कर्चुक्तिः। ('भवदंहिसरोरुहाणां') त्वच्चरणकमलानाम् । सरसि रुहन्तीति सरोरुहाणि 'तत्पुरुषः', अंहय एव सरोरुहाणि अंहिसरोरुहाणि 'कर्मधारयः', भवतोऽहिस. रोरुहाणि भवदंहिसरोरुहाणि 'तत्पुरुषः तेषां सम्बन्धिन्याः । सन्ततिसञ्चितायाः सन्तत्यासन्तानेनापरापरचयेन सञ्चितायाः-सञ्चयं नीतायाः । सन्तत्या सञ्चिता सन्ततिसञ्चिता 'तत्पुरुषः' तस्याः, 'सन्ततसश्चितायाः' इति पाठे तु निरन्तरं कृतायाः। सन्ततं सञ्चिता सन्ततसञ्चिता तस्याः 'तत्पुरुषः । एवंविधाया भक्तेः फलं किमपि यद्यस्ति तदिति तदा हे शरण्य! अत्र-भुवने भवान्तरेऽपि च त्वदेकशरणस्य मे त्वमेव स्वामी भूया इत्यन्वयः। कव॒क्तिः । हे 'शरण्य!' । शरणार्हः शरण्यः तस्य सम्बोधनम् । 'अत्र भुवने' इह लोके । 'भवान्तरेऽपि' परभवेऽपि । एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन् । चशब्दोऽत्राध्याहार्यः । त्वदेकशरणस्य । एकं च तच्छरणं च एकशरणं 'कर्मधारयः', त्वमेवैकशरणं यस्य स त्वदेकशरणः 'बहुव्रीहिः' तस्य । एवंविधस्य मे-मम त्वमेव स्वामी भूया एतदेवाहमीहे । इति द्विचत्वारिंशत्तमवृत्तार्थः ॥ ४२ ॥ मा०वि०-यद्यस्तीति । हे नाथ! यदि भवदंहिसरोरुहाणां भक्तेः फलं किमपि अस्ति । 'अस्ति' इति क्रियापदम् । किं कर्तृ? 'फलम्' । कस्याः? 'भक्तेः' । केषाम् ? 'भवदहिसरोरुहाणां' त्वच्चरणकमलानाम् । कथम् ? 'किमपि । भक्तेः किम्भूतायाः ? 'सन्ततसश्चितायाः सन्ततं-निरन्तरं सञ्चितायाः एकीकृतायाः-समूहीकृतायाः। हे शरण्य! तत्तर्हि त्वमेव स्वामी भूयाः । 'भूयाः' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किंलक्षणः ? 'स्वामी' । कथम् ? 'एव' । कस्मिन् ? 'भुवने' । भुवने कस्मिन् ? 'अत्र' अस्मिन् जगतीत्यर्थः । कस्मिन् ? 'भवान्तरे' एकस्माद् भवात् अन्यो भवो भवान्तरं तस्मिन् । कथम् ? 'अपि' । कस्य ? 'मे' मम । किंलक्षणस्य ? 'त्वदेकशरणस्य' त्वं एकः शरणं यस्य स त्वदेकशरणस्तस्य, अथवा तव एकं शरणं यस्य स तस्य ॥ ___ अंहूय एव सरोरुहाणि अंहिसरोरुहाणि, भवतः अंहिसरोरुहाणि भवदहिसरोरुहाणि तेषां भवदहिसरोरुहाणाम् । 'भू सत्तायां' (सिद्ध० धा०) भूधातुः 'आशीः क्यास (सिद्ध० ३-३-१३) भूयाः इति जातम् । इति द्विचत्वारिंशत्तमकाव्यार्थकीर्तनम् ॥४२ Oh Lord ! if th-re can be any reward whatsoever for my having been devoti to Thy lotus-feet for a series of births, mayest Thou yield protection to me w! have Thee as the only refuge (or Thee alone as the refuge )and mayest Th alone be riuy master in this world and even in my future life ( incarnations). (4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy