SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ८५ श्रीमानतुङ्गसूरिविरचितम् क्रमेण विक्रमाक्रान्तभूचक्रशक्रः परमजैनः श्रीआदिदेवं गुरुप्रासादे न्यवेशयत् । चिरं । राज्यभागभूत् ॥ ॥ इति एकोनविंशी कथा ॥ मे० वृ०-अथ छत्रस्तवनमाह-(छत्रेत्यादि )। हे मुनीश! तव छत्रत्रयं विभाति-शोभते इत्यन्वयः । 'विभाति' इति क्रियापदम् । किं कर्तृ ? 'छत्रत्रयम्' । किंरूपम् ? 'उच्चैः' उपरि ‘स्थितम्' । कस्य ? 'तव' । किंविशिष्टं छत्रत्रयम् ? 'शशाङ्ककान्त' चन्द्रवन्मनोहरन् । पुनः किंरूपं छत्रत्रयम् ? 'स्थगितभानुकरप्रताप' आच्छादितसूर्यकान्तितेजस्कम् । पुनः किं० ? 'मुक्ताफलप्रकरजालविवृद्धशोभं' मौक्तिकसमूहस्य जालं-संदर्भविशेषस्तेन अतिशयितशोभाधरम् । अत्र छत्राणां त्रिसङ्ख्यायामुत्प्रेक्षामाह-किं० छत्रत्रयम् ? 'त्रिजगतः परमेश्वरत्वं' उत्कृष्टनाथत्वं 'प्रख्यापयत्' सूचयत्-कथयत् , त्रित्वादिति शेषः, भगवान् त्रयाणां जगतां स्वामी अतस्त्रीणि छत्राणि वर्तन्ते इति भावः ॥ (समासाश्च-) छत्राणां त्रयं छत्रत्रयम् । शशाङ्क इव शशाङ्कस्तच्च तत् कान्तं शशाङ्ककान्तम् । भानोः कराः भानुकराः, तेषां प्रतापो भानुकरप्रतापः, स्थगितो भानुकरप्रतापो येन तत् तथा । मुक्ता एव फलानि मुक्ताफलानि, तेषां प्रकरः-जालं तेन विवृद्धा शोभा यस्य तत् तथा । त्रयाणां जगतां समाहारखिजगत् तस्य । परमश्वासावीश्वरः (च) परमेश्वरः, तद्भावः परमेश्वरत्वम् ॥ इति काव्यार्थः ॥ ३१ ॥ Thy three canopies which are lying above ( Thy head), which are beautiful like the Moon, which have (even) eclipsed the light or have removed the excessive heat) of the rays of the Sun and whose beauty is enhanced by a zone of pearls and which proclaim Thy supremecy over the three worlds are resplendent. (31) अथातिशयद्वारेण जिनं स्तौति उन्निद्रहेमनवपङ्कजपुञ्जकान्ति पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ गु० वि०-हे जिनेन्द्र! तव पादौ-चरणौ यत्र भूमौ पदानि गमनेऽवस्थानरूपाणि न्यासन् (धत्तः?)-धारयतः विबुधा-देवास्तत्र-धरापीठे पद्मानि-कमलानि परिकल्पयन्तिरचयन्ति, निर्मापयन्तीत्यर्थः। किंभूतौ चरणौ ? उन्निद्राणि-विकस्वराणि हेम्नः-स्वर्णस्य नवानि-नूतनानि नवसङ्ख्या (का)नि वा पङ्कजानि-कमलानि तेषां पुञ्ज-चयस्तस्य कान्तिः-द्युतिः, पर्युल्लसन्ती-समन्तादुच्छलन्ती या नखानां मयूखशिखा-किरणचूला, Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy