SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् उन्निद्रहेमनवपङ्कजपुञ्जकान्त्या पर्युलसन्नखमयूखशिखया वाऽभिरामौ-रुचिरौ । कोऽर्थः ? एका नवस्वर्णकमलकान्तिः पीता, अपरा दर्पणनिभा नखप्रभा च चरणौ वर्णविचित्रौ चक्रतुरिति । पद्मानां पुञ्जत्वमागमे (आवश्यकनियुक्तौ गा० ५५५) अप्युक्तम् "सूरोदयपच्छिमाए, ओगाहंतीइ पुर्वओ एइ(ऽईइ)। दोसु पउमेसु पाया, मग्गेण य हुंति सत्तण्णे ॥१॥" । इति वृत्तार्थः ॥ ३२॥ मे० वृ०-अथ चत्वारि प्रातिहार्याण्युक्त्वा अतिशयसम्पदं संक्षेपेणाह-(उन्निद्रेत्यादि)। हे जिनेन्द्र!-जिननायक! तव पादौ-चरणौ यत्र स्थले पदानि धत्तः इति सम्बन्धः। 'धत्तः' इति क्रियापदम् । कौ कर्तारौ ? 'पादौ । कानि कर्मतापन्नानि ? 'पदानि' भूमौ आकारन्यासरूपाणि । यत्तदोनित्याभिसम्बन्धात् तत्र स्थाने विबुधाः-देवाः पद्मानि-कमलानि परिकल्पयन्तिरचयन्ति-विकुर्वन्ति । 'परिकल्पयन्ति' इति क्रियापदम् । के कर्तारः ? 'विबुधाः' । अवसरज्ञताव्यक्षकमेतत् । कानि कर्मतापन्नानि ? 'पद्मानि' । कुत्र ? 'तत्र' यत्र तव पादौ पदानि धत्तः । कथंभूतौ पादौ ? 'उन्निद्रहेमनवपङ्कजपुन कान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ' एतदर्थः समासादेवेति, स चैवम्-उद्गता निद्रा येषां तानि उन्निद्राणि-विकस्वराणि, सुवर्णस्य नवानि-नूतनानि नव सङ्ख्याकानि वा यानि पङ्कजानि-कमलानि हेमनवपङ्कजानि, उन्निद्राणि च तानि हेमनवपङ्कजानि च उन्निद्रहेमनवपङ्कजानि, तेषां पुञ्जः-समूहस्तस्य प्रभा तया पर्युल्लसन्तो-वृद्धिं गच्छन्तो ये नखानां मयूखाः-कराः उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखाः, तेषां शिखा-अग्राणि ताभिः अभिरामौ-मनोहरौ उन्निद्रहेमनवपङ्कजपुजकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ । मयूखशब्दः कवर्गीयोपान्यः । जिनेषु इन्द्रो जिनेन्द्रः, तत्सम्बोधने हे जिनेन्द्र ! । अत्र पूर्वार्द्ध समासभूयस्त्वाद् गौडीय. रीतिः, परार्द्ध न तथेति वैदर्भी रीतिः, न च रीतिभ्रंशदोषः, वस्तुतः पूर्वार्द्धस्य भिन्नत्वादेव, अत एव सन्धिकार्यमपि न, पादस्य तु रीतिभेदे न दुष्टमिति । अत्र देवकृतः अर्हत्पदस्थाने देवाः स्वर्णमयानि नव पद्मानि स्थापयन्तीत्यतिशयः सूचितः, तदुपलक्षणात् सर्वेऽपि चतुस्त्रिंशदतिशया ज्ञेयाः॥ इति काव्यार्थः ॥ ३२ ॥ ___Oh Lord of the Jinas ! the gods create ( nine ) lotuses wherever the footprints are formed by Thy feet which are attractive on account of the pencil of rays issuing from Thy nails shining with the splendour of the cluster of the blooming golden fresh (or nine ) lotuses. ( 32 ) १ छाया सूर्योदये पश्चिमायां (च पौरुष्या) अवगाहयन्त्यां पूर्वत एति । द्वयोः पत्नयोः पादौ पृष्ठतश्च भवन्ति सप्तान्यानि ॥१॥ २'सूरुदयः' इति क-पाठः। ३ 'पुचउइपई' इति ग-पाठः। ४ 'दोहिं पउमेहं' इति ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy