SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् तद्धारणाद् दोहदलक्षणं सा मुक्ताफलं शुक्तिमिवाशु दधे ॥ ९ ॥ - उपजातिः प्राचीव भानुं नरदेवदेवी प्रासू सूनुं समये सुदीप्तम् । व्यधान्नृपो जन्ममहं च चक्रा दासं च नाम्नेति समं वराप्तेः ॥ १० ॥ कलाः स शुक्लप्रतिपच्छशीव गृह्णन् विवृद्धिं वपुषा च पुष्णन् । मुष्णस्तमस्तापततिं जगत्या Jain Education International रराज सद्वृत्ततया कुमारः ॥ ११ ॥ तरस्तरण्याऽथ नृपस्तरङ्गिणीं ददर्श मीनं प्रहसन्तमुच्चकैः । अपृच्छदार्तश्चतुरांस्त ऊचिरे प्रजाभिये स्याद् विकृतस्य दर्शनम् ॥ १२ ॥ - उपेन्द्रवज्रा न गिरा सोऽथ धृतिं देधार नितान्तमन्तर्विभयाञ्चकार । अन्येद्युरुद्यानमसौ ससार जैन मुनिं तत्र नमश्चकार ॥ १३ ॥ - उपजातिः पृष्टोऽथ राज्ञा संषहास्य हेतु मुवाच वाचंयमसत्तमस्तम् । उभावभूतामिह दारुभार T वाह पुरे निर्धनतनाह्रौ ॥ १४ ॥ तावेकदा काष्टकृते वनं गतौ मैत्रीयुतौ सतकमात्रशम्बलौ । मूर्त्या कृशं धर्मतपोऽकृशं भृशं श्वेताम्बरं साधुमथो अपश्यताम् ॥ १५ ॥ - इन्द्रवंशा मासोपवासत्रतपारणार्थिने मुष्मै वितीर्ण तनु सक्तभोजनम् । बीजं सुभूमावि भावपाथसा सिक्तं महत्पुण्यकणाय जायते ॥ १६ ॥ - इन्द्रवंशा १ अत्र समस्तपादान्तेऽनुप्रासः । २ मत्स्यहासकारणम् । ३ इन्द्रवंशालक्षणम् - "तचेन्द्रवंशा प्रथमाक्षरे गुरौ” । ७५ For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy