SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भक्तामर स्तोत्रम् 'विबुधार्चितबुद्धिबोधात्' विबुधैः पण्डितैर्देवैर्वा अर्चिता - सम्मानिता या बुद्धि: - ज्ञानं तस्य (बोधांत -) प्रकाशात्, यथार्थतया बुद्धत्वं त्वयि एव घटते इत्यर्थः । हे धीर! त्वं शङ्करोऽसि इत्यन्वयः प्राग्वत् । [ किंविशिष्टः शङ्करः ईश्वरः ] । कस्मात् ? 'भुवनत्रयशङ्करत्वात् ' जगत्रितयसुखकारित्वात् । हे धीर ! त्वं धाताऽसि । कस्मात् ? 'शिवमार्गविधेर्विधानात् ' मोक्षमार्गरूपो यो विधिः- धर्माचारः तस्य निष्पादनात् । हे भगवन् ! त्वं पुरुषोत्तमः व्यक्तं - प्रकटमेव असि, सर्वपुरुषेषु त्वत्तों नान्यः पुरुषोत्तमः, जगद्वन्द्यत्वेन त्वं पुरुषोत्तमो निश्चीयत एवेति न तत्र हेतोरपेक्षा इति, अनेन शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, सर्वज्ञो बुद्ध इति बौद्धा इत्युपासते, तेऽपि त्वामेव प्रपन्नाः सन्तीति सूचितम् ॥ ७० समासा यथा - विबुधैरर्चिता विबुधार्चिता सा चासौ बुद्धि विबुधार्चितबुद्धिस्तस्य बोधो विबुधार्चितबुद्धिबोधस्तस्मात् । शं-सुखं करोतीति शङ्करः, भुवनानां त्र्यं भुवनत्रयं तस्य शङ्करो भुवनत्रयशङ्करस्तस्य भावो शङ्करत्वं तस्मात् । शिवस्य मार्ग: शिवमार्गः, तस्य विधि: शिवमार्गविविस्तस्य । भगो-ज्ञानं अस्यास्तीति भगवान्, तस्यामन्त्रणं हे भगवन् ! | पुरुषेषु उत्तमः पुरुषोत्तमः ॥ इति काव्यार्थः ॥ २५ ॥ Ile gives out his decision. Thou alone art Buddha, because the gods have worshipped the enlightenment of Thy knowledge. There is no other Sankara than Thee; for Thou (alone) bestowest happiness to the three worlds. Oh Intelligent Being! Thou alone art the Creator (Brahman); for, Thou hast pointed out the path leading to liberation, Oh Divine Being! it is quite evident that Thou alone art the best of men (Purushottama i. e. Nārūyana ). ( 25 ) 35 汝 अथ पुनर्जिनं नमन्नाह - तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ गु० वि० – हे नाथ! तुभ्यं भवते नमः । तुभ्यमत्रैकवचनकरणात् सर्वदेवपरिहारेण भगवते एकस्मै नमः - नमस्कारोऽस्तु । नतौ नमसूशब्दोऽव्ययः । किंभूताय ? त्रिभुवनार्तिहराय - सद्वचःकरणाभ्यां विश्वत्रयपीडानाशनाय । यः सर्वेषां कृच्छ्रहन्ता स एव वन्द्यः । हे स्वामिन्! तुभ्यं नमोऽस्तु । क्षितितलस्य-भूपीठस्य अमलभूषणाय - निर्मलालङ्काराय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy