SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् प्रसद्य भगवन् ! सद्यो, राज्ञीजीवितदानतः । मम जीवसमुद्धारं, कुरु राज्यं गृहाण च ॥ १४ ॥ इति विज्ञापितः सूरि-दूरीकृत्य पुराकृतान् । रक्षौषधिमणीयन्त्र-कण्डकांस्तत्तनुस्थितान् ॥ १५ ॥ आनाय्य नीरं प्रक्षाल्य, स्वांही गुरुभिरर्पितम् । राज्ञोपात्तं प्रहृष्टेन, दुःस्थितेनेव शेवधिः ॥१६॥ अम्बुनः सेवनात् पाना-चक्रायाश्च प्रभावतः। प्रणेशुय॑न्तराः क्रूराः, सूरादिव दिवाऽन्धकाः ॥१७॥ द्वासप्ततिः स्फुरद्वेष-भूषणा गतदूषणाः । निर्मिता नृपसुन्दयः, शान्तिसूरिमुनीन्दुना ॥ १८॥ (ततः) गुरुपार्थे धर्ममौषीत् सपरिवारो नृपः । यथा ज्ञानादित्रितयोच्चशालकलितं शीलाङ्गसंज्ञैः पुरः सत्सूत्रः कपिशीर्षकैः परिगतं दानादिसद्गोपुरम् । क्षान्त्याधुच्चदशप्रकारविलसद्यन्त्रं शमाम्भोनिधिं भीताः कर्मरिपोः श्रयध्वमधुना सद्धर्मदुर्ग जनाः ! ॥ १९ ॥-शार्दूल. इति श्रुत्वा नरेन्द्रेण, जैनो धर्मः समादृतः। सकले मण्डले क्लुप्ता, जीवरक्षा शुभावहा ॥ २०॥-अनु० राज्ञीभिश्च गुरोः पार्श्वे, प्रपेदे धर्ममाहतम् । विशुद्धभावनाराजि-चेतोभिः पञ्चमीतपः ॥ २१ ॥ प्रासादान कारयामास, जैनानुत्तुङ्गतोरणान् । जिनार्चानां प्रतिष्ठाश्च, गुरुवाक्याजनेश्वरः ॥ २२ ॥ प्रभावनां जैनमतस्य कृत्वाऽ सौ साधवीं धर्मधुरं च धृत्वा । दिवं ययौ शुद्धसमाधिभव्यः ॥ २३ ॥-उपजातिः ॥ इति षोडशी कथा ॥ मे० वृ०-अथ बाहुल्येन प्रसिदद्धेवस्वरूपेण वर्णयन्नाह-(बुद्धस्त्वेत्यादि ) । हे धीर! त्वमेव बुद्धोऽसि इयन्वयः । 'असि' इति क्रिया० । कः कर्ता ? 'त्वम्' । किंविशिष्टः? 'बुद्धः' बुद्धनामा बौद्धानां देवः, कृष्णस्य बुद्धावतारो वा । एवकारो अत्र निर्णये । कस्मात् ? . 'प्रसादतः' इति ख-पाठः। २ 'तयोरुशाल.' इति ग-पाठः । ३ 'गलयनं' इति ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy