SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् ब्रह्मा तम् । न विद्यते अन्तो यस्य स अनन्तस्तम् । अनङ्गस्य केतुरिव केतुरनङ्गकेतुस्तम् । केतुधूमकेतुरि युच्यते, पदैकदेशे पदसमुदायोपचारात् , धूमकेतुग्रहस्तु विनाशाय स्यादिति । योगिनामीश्वरो योगीश्वरस्तम् । विदितो योगो येन स तम् । न एकः अनेकस्तम् । ज्ञानमेव स्वरूपं यस्य स तम् । न विद्यते मल:-कर्मलेपो यस्य सः अमलस्तम् । गभीरार्थ च इदं काव्यं विशेषज्ञेभ्यो ज्ञेयम् ॥ इति काव्यार्थः ॥ २४॥ He substantictes the supremacy of Lord Rishabha. The good declare Thee as imperishable, omnipresent (or powerful), incomprehensible, innumerable (or free from wars), first (in position and time ), Brah. man, Īs'vara, infinite, the comet in destroying the Cupid, the master of Yogins, well-versed in Yoga, many, one, the embodiment of knowledge and pure. ( 24 ) किञ्च बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ गु० वि० हे विबुधार्चित!-शक्रमहित ! बुद्धः-सप्तानामन्यतमः सुगतस्त्वमेव । कस्मात् ? पदार्थेषु बुद्धिवोधात्-मतिप्रकाशात् , यतो 'बुद्धिर्भवति बौद्धेषु' । अथ सत्यार्थी बुद्धस्त्वमेव, धर्मे बुद्धिप्रकटनाद्, वा विबुधा-विशिष्टपण्डिता-गणधरास्तैरर्चितस्तीर्थकरस्तस्य बुद्धिः-केवलज्ञानं तया बोधो-वस्तुस्तोमस्य परिच्छेदस्तस्माद् विबुधार्चितबुद्धिबोधात् त्वमेव बुद्धो-ज्ञाततत्त्वो भवसि । यतो बुद्धः स्वमांसदानेन वृथा कृपालुरिति । हे देव! शं-सुखं करोतीति शङ्करः, स यथार्थनामा त्वमसि, भुवनत्रयशङ्करत्वात्-त्रिलोकीसुखकारित्वात् । स शङ्करो रुद्रः कपाली नग्नो भैरवः संहारकृत्, (अतः) न शङ्करः। हे धीर! दधातीति धाता-स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूपनियोगस्य विधानात्-करणात् । स ब्रह्मा जडो वेदोपदेशात् नरकपथमुदजीघटत् । हे भगवन् ! व्यक्त-प्रकटं पुरुषोत्तमस्त्वमेवासि शक्तिमति (त?) प्रकृष्टपुरुषेषूत्तमः। यत आजन्मासौ परा. र्थव्यसनी उचितक्रियावान् अदीनमनाः कृतज्ञो दृढप्रतिज्ञो गम्भीर इति । स विष्णुः पुरुषोत्तमत्वं कृतार्थ न धत्ते, क्वापि क्वापि कपटप्रकटनाद् बलिच्छलनादिषु गोपीषु च । इति वृत्तार्थः ॥२५॥ १०धार्चित ! बुद्धि०' इत्यपि पदच्छेदः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy