SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ६६ भक्तामर स्तोत्रम् त्वेन महात्रतत्वेन वृषभान्वितत्वेन सुमङ्गलापतित्वेन वा ईश्वरमिव प्रतीयमानं वा । पुनः किंविशिष्टं त्वाम् ? ‘अनन्तं' अन्तो— मृत्युस्तद्रहितं अनन्तं बलं बलभद्र साहचर्याद् विष्णुरूपमित्यर्थः, रामकृयोरैक्यत्वेन प्रतीतत्वात्, अत एव - ""वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यान् दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १ ॥ - शार्दूल० इत्यष्टपद्यामयुक्तम् । पुनः किं० त्वाम् ? 'अनङ्गकेतुं' कन्दर्पस्य नाशकत्वेन केतुतुल्यं, बुद्धदेव मित्यर्थः, बुद्धस्य मारलोकजयित्वेन प्रसिद्धत्वात् । अत एव - इति नैषधीये (स० ४, लो० ८०) अपि प्रोक्तम् । पुनः किं० ? ' योगीश्वरं ' योगिनां ध्येयं, साङ्ख्यमते परमर्षितया प्रसिद्धम् । पुनः किं० त्वां ? 'विदितयोगं' ज्ञाताष्टाङ्गयोगमार्ग, नैयायिकमते गौतम, पातञ्जलिमते पतञ्जलिं वा, योगसाधनवीथीनामुपदेशकत्वेन प्रसिद्धत्वात् । पुनः किं० त्वाम् ? 'अनेकं' अनेकगुणसंयुक्तं, सृष्टिकारकं मन्वादिकं वा, केषाञ्चिन्मते सृष्टिकारकाणां मन्वादीनां अनेकत्वात् इत्यनेन मीमांसकमतसंगतिर्देर्शिता । पुनः किं० त्वाम् ? 'एक' सङ्ग्रहनयापेक्षया जीवद्रव्यस्य एकत्वात्, अत एव "एगे आया" इति स्थानाङ्गसूत्रम्, परमतेऽपि "सुगत एव विजित्य जितेन्द्रियरत्वदुरुकीर्तितनुं यदनाशयत् । तव तनूमवशिष्टवतीं ततः समिति भूतमयीमहरधरः ॥ १ ॥ - द्रुतविलम्बितम् " Jain Education International "एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥" - अनु० इति, अनेन वेदान्तिनां मतं सूचितम् । पुनः किं० त्वाम् ? 'ज्ञानस्वरूपं केवलज्ञानमयं इति, अनेन ज्ञानाद्वैतमतं दर्शितं तेषां मते ज्ञाता ज्ञेयं च नास्ति, केवलं ज्ञानभेवेति यद्वा शुद्धबुद्धस्वभाव इत्योपनिषद्गतं ज्ञापितम् । पुनः किं० त्वाम् ? 'अमलं' निर्मलं अष्टाददादोषरहितं निर्लेपमात्रं वा इति, अनेन लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपतमतं सूचितम् । सर्वेष्वपि दर्शनेषु वत्तन्नाम्ना तत्तथारूपाध्यवसायेन त्वामेव देवत्वेन तीर्थान्तरीयाः प्रपन्नाः सन्तीति भावः ॥ अथ समासाः - न विद्यते व्ययो यस्य सः अव्ययस्तम् । चिन्तयितुं योग्यश्चिन्त्यः, न चिन्त्योऽचिन्त्यम् । न विद्यते सङ्ख्यं सङ्ख्या वा यस्य सः असङ्ख्यस्तम् । “युद्धं तु सङ्ख्यं कलिः” (अभि० का० ३, श्रो० ४६०) इति हेमपादाः | आदौ भव आद्यस्तम् । वृंहति - अनन्तानन्देन वर्धते इति १ 'गीतगोविन्द' नाम्नाऽस्याः ख्यातिः । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy