SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ खामिकार्तिकेयानुप्रेक्षा [गा०८०५. अन्यत्वानुप्रेक्षा अथ त्रिभिर्गाथाभिरन्यत्वानुप्रेक्षामुत्प्रेक्षते अण्णं देहं गिण्हदि' जणणी अण्णा य होदि कम्मादो। अण्णं होदि कलत्तं अण्णो वि य जायदे पुत्तो ॥८॥ [छाया-अन्य देहं गृह्णाति जननी अन्या च भवति कर्मणः । अन्यत् भवति कलत्रं अन्योऽपि च जायते पुत्रः॥ अन्यं भिनं, देहं शरीरं, गृहाति अङ्गीकरोति, जीवः इत्यध्याहार्यम् । जननी सवित्री माता अन्या च भिन्ना च भवति । कुतः । कर्मतः स्वकीयकृतकर्मविपाकात् । कलत्रम् आत्मनः स्वभावाद् अन्यत् पृथग्भवति । अपि च पुत्रः आत्मजः अन्यः शरीरादेः पृथक् जायते उत्पद्यते ॥ ८०॥ एवं बाहिर-दचं जाणदि रूवादु अप्पणो भिण्णं । जाणतो वि हु जीवो तत्थेव हि रच्चदे मूढो ॥ ८१॥ [छाया-एवं बाह्यद्रव्यं जानाति रूपात् आत्मनः भिन्नम् । जानन्नपि खलु जीवः तत्रैव हि रज्यति मूढः ॥1 एवं शरीरजननीकलत्रपुत्रादिवत् बाह्यद्रव्यं गजतुरगरथद्रव्यगृहादिकः आत्मनः खरूपात् चिद्रूपस्य खभावात् भिन्नं पृथक् जानाति वेत्ति । हु स्फुटम् । भिन्नं जानन्नपि मूढो जीवः अज्ञः प्राणी तत्रैव बाह्यद्रव्ये पुत्रमित्रकलत्रधनधान्यादौ रज्यति रागं गच्छति ॥८१॥ जो जाणिऊण देहं जीव-सरूवादु तच्चदो भिण्णं । अप्पाणं पि य सेवदि कजकरं तस्स अण्णत्तं ॥ ८२॥' [छाया-यः ज्ञात्वा देहं जीवस्वरूपात् तत्त्वतः भिन्नम् । आत्मानमपि च सेवते कार्यकर तस्य अन्यत्वम ॥] तस्य जीवस्य अन्यत्वम् अन्यत्वानुप्रेक्षाचिन्तनं कायेकर मोक्षपर्यन्तसाध्यसाधकम् । तस्य कस्य । यः सेवते भजते । कम् । आत्मानं शुद्धचिद्रूपम् । किं कृत्वा । ज्ञात्वा परिज्ञाय । कम् । देहं शरीरे, जीवखरूपात् आत्मस्वरूपात्, तत्त्वतः परमार्थतः, भिनं पृथक् ॥ ८२॥ भिनं जिनं जगति कर्मशरीरगेहात् ज्ञानादितो न खलु भिन्नमिमं भजध्वम् । भिनं जगद्वदति यो जगतां जितात्मा भिन्नेतरादिघटतां घटयन स भाति ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायास्त्रिविद्यविद्याधरपरभाषाकविचक्रवर्तिभट्टारकश्रीशुभचन्द्रदेवविरचितटीकायाम् अन्यत्वानप्रेक्षायां पञ्चमोऽधिकारः ॥५॥ तीन गाथाओंसे अन्यत्वानुप्रेक्षाको कहते है । अर्थ-अपने उपार्जित कोंके उदयसे जीव भिन्न शरीरको ग्रहण करता है । माता भी. उससे भिन्न होती है । स्त्री मी भिन्न होती है और पुत्र भी भिन्न ही पैदा होता है । भावार्थ-आत्मासे शरीर, स्त्री, पुत्र, आदिके भिन्न चिन्तन करनेको अन्यत्वानुप्रेक्षा कहते हैं । आत्मासे ये सभी वस्तुएँ भिन्न हैं ॥ ८० ॥ अर्थ-इस प्रकार शरीर, माता, स्त्री, पुत्र आदिकी तरह हाथी, घोड़ा, रथ, धन, मकान वगैरह बाह्य द्रव्योंको यद्यपि आत्मासे भिन्न जानता है, किन्तु भिन्न जानते हुए भी मूर्ख प्राणी उन्हींसे राग करता है ।। भावार्थ-यह सब जानते हैं, कि संसारकी सब विभूति हमसे पृथक् है, किन्तु फिर भी सब उनसे प्रीति करते देखे जाते हैं ।। ८१ ॥ अर्थ-जो आत्मखरूपसे शरीरको यथार्थमें भिन्न जानकर अपनी आत्माका ही ध्यान करता है, उसीकी अन्यत्वानुप्रेक्षा कार्यकारी है ॥ भावार्थ-शरीरादिकसे १ गिणिदि। २ व जाण सरूवादि भ'। ३ ब जीवस्स रूवादि। ४व अनुत्ताणप्रेया, म अन्यत्वानुप्रेक्षा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy