SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ब्राह्मणात् शंसी । ५६ । अत्र ङसेः लुगभावः निपात्यते । ब्राह्मणात् ग्रन्थात् गृहीत्वा शंसति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । अन्यत्र लुग् भवत्येव-ब्राह्मणशंसिनी स्त्री ।। ५६ ।।। नामिनः स्वरात् खिति अमः । ५७ । नाम्यन्तात् एकस्वरात् परस्य अमः खिदन्ते उत्तरपदे परे ग्लुग् न भवति । स्त्रियमन्यः । नावंमन्यः । नामिन इति किम् ? वाग्मन्यः । एकस्वरात् इति किम् ? कालिंमन्यः ? खिति इति किम् ?. स्त्रीमानी ।। ५७ ॥ षष्ठयाः आक्रोशे । ५८।। आक्रोशे गम्यमाने षष्ठ्याः उत्तरपदे परे *लुग् न भवति । चौरस्य कुलम् । दास्याः पतिः । आक्रोशे इति किम् ? चौरकुलम् । तत्त्वाख्याने न प्रतिक्षेपः ॥ ५८ ॥ पुत्रे वा । ५९।। आक्रोशे गम्यमाने पुत्रशब्दे उत्तरपदे परे षष्ठयाः लुग् वा भवति । दास्याः पुत्रः, दासीपुत्रः । आक्रोशे इति किम् ? ब्राह्मणपुत्रः । 'दासीपुत्रः' इति तु तत्त्वाख्याने ।। ५९ ।। 'वाचोयुक्ति आदयः । ६० । एते षष्ठ्याः लुगभावे निपात्यन्ते । वाचोयुक्तिः । पश्यतोहरः । दिशोदण्डः । देवानांप्रियः । शुनः शेप-पुच्छलाङ्गुलेषु नाम्नि-शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गलः । वाचस्पतिः । वास्तोष्पतिः । दिवस्पतिः । दिवोदासः। गोष्पदो देशः यत्र ग्रामसमीपादौ गावः संचरन्ति । गोष्पदपूरं वृष्टो देवः । अन्यत्र न भवति । गोपदम् ॥ ६.० ॥ ऋतां विद्या-योनिसंबन्धे । ६१। - विद्यायाम् योनिसंबन्धे च निमित्ते प्रवर्तमानानाम् ऋदन्तानां संबन्धिन्याः षष्ठ्याः विद्यायोनिसंबन्धे एव निमित्ते सति प्रवर्तमाने उत्तरपदे श्लुग् न भवति । . होतुःपुत्रः । पितुःपुत्रः । होतुःअन्तेवासी । पितुःअन्तेवासी। ऋताम् इति . १ यः चौर्य करोति स चौरः इति स्वरूपपरिचयवार्तायाम् न आकोशः । . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy