SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नाम्नि नवमः पादः [१३५ मनसः टः । ५०। 'मनः'शब्दात् परस्य टावचनस्य उत्तरपदे परे नाम्नि श्लुग् न भवति । मनसागुप्ता । मनसादेवी एवं नाम काचित् । नाम्नि इति किम् ? मनोदत्ता कन्या ॥ ५० ॥ आज्ञायिनि । ५१। 'मनः'शब्दात् परस्य टः आज्ञायिनि उत्तरपदे परे श्लुग् न भवति । . मनसाज्ञायी ॥५१॥ पूरणे च आत्मनः । ५२ । 'आत्म'शब्दात् परस्य टः आज्ञायिनि पूरणे प्रत्ययान्ते च उत्तरपदे परे श्लुग् न भवति । आत्मनाज्ञायी। आत्मनापञ्चमः । आत्मनाषष्ठः । “जनार्दनस्त्वात्मचतुर्थ एवं" ] इति बहुव्रीहिः ॥ ५२ ॥ पुम्-जनुषः अनुज-अन्धे । ५३ । पुम्-जनुःशब्दाभ्यां परस्य टः यथासंख्यं अनुजे अन्धे च उत्तरपदे परे श्लुग् न भवति । ___ मनसाअनुजः । जनुषा जन्मना अन्धः जनुषाअन्धः । टः इति किम् ? पुमांसम् अनुजातः पुमनुजः ॥ ५३ ॥ ओजस्-अञ्जस्-सहस्-अम्भस्-तमस्-तपसः। ५४। एभ्यः परस्य टः उत्तरपदे परे श्लुग् न भवति । ओजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् ॥ ५४ ॥ स्तोक-अल्प-कतिपय-कृच्छात् असत्त्वे उसेः। ५५। असत्त्वे वर्तमानेभ्यः 'स्तोक'आदिभ्यः परस्य ङसेः उत्तरपदे परे श्लुग् न भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । कतिपयान्मुक्तः । कृच्छ्रान्मुक्तः । असत्त्वे इति किम् ? स्तोकभयम् । उत्तरपदे इति किम् ? निःस्तोकः ॥ ५५ ॥ १ इदमेव पद्यरूपम् उदाहरणम् सूत्र ३ । २ । १४ । हैमे । अत्र "आत्मा चतुर्थः अस्य इति बहुव्रीहिः' इति तत्रैव वृत्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy