SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नाम्नि नवमः पादः [१३७ किम् ? आचार्यपुत्रः । बहुवचनम् विद्यासंबन्धस्य विद्यासंबन्धे योनिसंबन्धस्य च योनिसंबन्धे इति यथासंख्याऽभावार्थम् । अत एव 'योनिसंबन्धे' इति उभयोः विशेषणम् तेन इह न भवति-भर्तृगृहम् । भर्तृपुत्रः । पितृगृहम् ॥ ६१ ॥ ___ स्वसृ-पत्योः वा । ६२ । - विद्या-योनिसंबन्धे वर्तमानानाम् ऋदन्तानां षष्ठ्याः विद्या-योनिसंबन्धनिमित्तयोः स्वसृ-पत्योः परयोः श्लुग् वा न भवति । होतुःस्वसा, होतृस्वसा । दुहितुःपतिः, दुहितृपतिः । विद्यायोनिसंबन्धे इति किम् ? भर्तृस्वसा । होतृपतिः ॥ ६२ ॥ आ द्वन्छे । ६३ । विद्या-योनिसंबन्धनिमित्तानां ऋदन्तानां द्वन्द्वे समासे उत्तरपदे परे पूर्वपदस्य आकारः अन्तादेशो भवति । होता च पोता च होतापोतारौ । ऋदन्तानाम् इति किम् ? गुरुशिष्यौ । ऋतां द्वन्द्वविशेषगम् किम् ? पितृपितामहौ । विद्यायोनिसंबन्धे इति किम् ? कर्तृ-कारयितारौ ॥६३ पुत्रे । ६४। पुत्रशब्दे उत्तरपदे परे विद्या-योनिसंबन्धनिमित्तानाम् ऋदन्तानां द्वन्द्वे आकारः अन्तादेशो भवति । होतापुत्रौ । पितापुत्रौ ॥ ६४ ॥ वेदसहश्रुत-अवायुदेवतानाम् । ६५ । वेदे सहश्रुतानाम् वायुवर्जानां देवतानां द्वन्द्वे पूर्वपदस्य उत्तरपदे परे आकारः अन्तादेशो भवति । इन्द्रासोमौ । इन्द्रावरुणौ । वेद इति किम् ? ब्रह्मप्रजापती। सह° इति किम् ? विष्णुशक्रौ । श्रुत' इति किम् ? चन्द्रसूर्यो । वायुवर्जनम् इति किम् ? वावग्नी । देवतानाम् इति किम् ? यूपचषालौ ।। ६५ ॥ षोम-वरुणे अग्नेः ईः। ६६ । वेदसहश्रुत-अवायुदेवतानां द्वन्द्वे षोमे वरुणे च उत्तरपदे परे अग्नेः ईकारो भवति । अग्नीषोमौ । अग्नीवरुणौ । 'षोम' इति अत एव निर्देशात् अग्नेः ईकारे षकारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy