SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ भट्टश्रीचक्रधरप्रणीतः [ का०पृ०६९, वि०पृ०४९९ विपच्यमानकर्माशयेति । आशयः संस्कारः, तत्सहितः, केवलस्य संयोगस्य 'मृतावस्थायामपि - नित्यत्वेन व्यापकत्वेन चात्मनः – सद्भावात् । उपपद्यते - देहसम्बन्ध - मनुभवति - येषु तानि उपपत्तिस्थानानि । २०८ अन्त्यसुखेति । यतः परं फलमन्यत् ताभ्यां देयं नास्ति तदन्त्यम् । परसन्तानवर्तिनामिति । स्वात्मनि रागादिनिबन्धनां प्रवृत्तिमनुभूतवान्, अतः परत्रापि प्रवृत्तिं दृष्ट्वा दोषसम्बन्धमनुमिमीत इति' । न चाशक्य प्रतिक्रिया इति । ज्ञातशमनोपायानामपि तदुपायस्य वैक [ल्येन प्रतिक ]र्तुमशक्यत्वादशक्यप्रतिक्रियत्वम् । व्यक्ताद् व्यक्तानामिति । व्यक्तात् परिमितात् [ व्यक्तानां] परिमितानामुत्पत्तिः, प्रत्यक्षेण व्यक्ताश्रितस्य कार्यभूतस्य व्यक्तस्य दर्शनाद नाव्यक्ताश्रितस्येत्यर्थः । तत्प्रत्यक्षत्वं प्रसज्यते, न च तत्प्रत्यक्षमिति । तस्य हि प्रत्यक्षतायां भूयोऽवयवग्रहणसहकारिणेन्द्रि[27] येणा[व] यविग्रहणात् परमा [णोः ] प्रत्यक्षत्वं प्राप्नोतीति केचित् । स्त (तस्य ) [ महत्त्वानुत्पादक ] त्वादेव वाऽग्रहणमिति युक्तम् । तदेवाह महत्वानुत्पादादिति । आरभ्यारम्भकत्वेति । यदि ह्येकमारभ्यान्यदप्यारभ्येत [तर्हि मूर्तानां कार्याणामेकदेशत्वं स्यात् । ] तद्यथा - - तदेकं यत्र वर्तते एवं द्वितीयमपि तत्रैव वर्तेत । न चायं मूर्तानां धर्मो दृश्यत इति । अनारब्धावयविरूपकार्या इत्यादिना सौ [त्रा ]न्तिकमतमाह । पौद्गलिककार्या इत्यादिना अर्हन्मतमुक्तम् । पर्यायान्तरेण परमाणुशब्देन । तदनुगमाग्रहणादिति । मृद्विवर्ताः घटादयो मृद्रूपानुगता गृह्यन्ते नैवं शब्दानुगतार्थः (ता अर्थाः) । परमात्मोपादान [त्व]मिति । सर्वत्र पृथिव्यादौ परिणामवशेन चैतन्याभिव्यक्तिदर्श[ना]त् चेतनोपादानत्वमेव सर्वस्य युक्तम् नाचेतनप्रधान-परमाण्वाद्युपादानत्वम् अचेतनावदुत्पत्त्यसम्भवादिति परमात्मोपादानत्ववादिनां मतम् । प्रमाणमप्याहुः -- यत् सामान्यविशेषवद् वस्तु तत् सर्वं कारणैकनिष्ठम्, यथा घटादि, यत् पुनः कारणैकनिष्ठं न भवति तत् सामान्य-विशेषवदपि न भवति । परमकारणं परमात्मा, न हि तस्यैकत्वात् केनचित् सह सामान्यं रूपमस्ति, एकत्वादेव च न तस्य कुतश्चिद् विशेष इति । अत एव न परमाणूनां परमकारणत्वं प्रधानस्य च तेषामपि सामान्य- विशेषवत्त्वात् । १ प्रवर्तनालक्षणा दोषाः । १.१. १८ । २ तुलना - अशक्यसमुच्छेदता च द्वेधा - दुःखस्य नित्यत्वाद्वा तदुच्छेदोपायापरिज्ञानाद्वा.... । सां०तत्त्वकौ० १ । ३ न्यायसू० ४.१.११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy