SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०९ का पृ०७६, विपृ०५०७] न्यायमञ्जरीग्रन्थिभङ्गः तथाहि-परमाणूनां परमाणुत्वं सामान्यम् , अन्त्यविशेषाश्च विद्यन्त एव । सत्त्वरजस्-तमसामपि अचेतनत्वं सामान्यम् , परस्परं च विशेषा विद्यन्त एव, अन्यथा त्रित्वानुपपत्तेरिति । श्रुतिमप्याहुः-'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि त[28]थाऽक्षरात् सम्भवतीह विश्वम्" इति' [ मुण्डकोपनिषद् १. १. ७] । नन्दीश्वर-नहुषयोरिति । नन्दिनामा ब्राह्मणकुमारको विप्रेभ्य आत्मनोऽ ल्पायुस्त्वमवगम्य तादृशं तीव्रतपोविशेषरूपं कर्माकरोद् येन तेनैव शरीरेण भगवतः शङ्करस्य गणाधिपत्यपूर्वकमजरामरत्वमवाप येनाद्यापि नन्दीश्वर इति ईश्वरशब्देन व्यवहियते । नहुषाख्यश्च सोमवंशप्रभवो राजर्षिर्मेहता पुण्यकर्मसम्भारेणैन्द्रपदमवाप्य ब्राह्मणान् स्ववाहनकर्मण्यश्ववद् नियुञ्जानो ब्राह्मणशापात् सद्य एवाजगरत्वमवाप । तीवसंवेगेति । तीव्रसंवेगेन महता प्रयत्नेन सर्वात्मना तत्परायणत्वेन निवृत्तम् । फलस्य च पुत्रपश्चादेरन्यत्रसमवेतत्वादिति । अन्यत्रसमवेतत्वं स्वावयवसमवेतत्वम् पुत्रादेरत्र विवक्षितम् । मुख्यस्य पुत्रजन्मजस्य । तद्धेतुरागेण सुखहेतु[रागेण] । न पूर्वापरविरोधादिति । पूर्व दुःखवत् सुखस्यापि फलतया प्रतिपादनात् । तत्कारणयोरनुकूल प्रतिकूलयोरिति । तदा हि तयोरकारणत्वाद् न तद्विषयौ राग-द्वेषौ युक्तौ। अजममरम् जन्म-विनाशरहितम् , अनन्तमात्मनस्तेन रूपेणावस्थानात् , शाश्वतम् व्यापकमिति । भट्टश्रीशङ्करात्मज चक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे अष्टमम् आह्निकम् १ ईश्वरः कारणम्...। न्या०स०४.१.१९ । मा भूदयं नामरूपप्रपञ्चः शून्यतोपादानः, अपि तु ब्रह्मोपादानो भविष्यति । ब्रह्मैव हि प्रपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्चनादिभावेन । न्यावा तात्प० ४. १. १९ । २ द्र० व्यासभा० (योगसू ० २-१३)। ३ मुद्रितमञ्जर्या तु संयोग इति पाठः । ४-५ न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् । तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः । न्यासू० ४.१.५३-५४। २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy