SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ का०पू०६९, वि०पृ०४९८ ] न्यायमञ्जरीग्रन्थिभङ्गः २०७ बुद्धिसिद्धं तु तदसत् [ न्या० सू० ४. १.५० ] इति । 'प्राङ् निष्पत्तेर्निष्पत्तिधर्मकं ना सदुपादाननियमात् । कस्यचित्सिद्धये किञ्चिदुपादेयम्, न सर्वं सर्वस्य' इति [ न्या० भा० ४ १.४८ ] । अस्य निराकरणायाह — बुद्धिसिद्धं तु तदसदिति । इदमस्योत्पत्तये समर्थं न सर्वमिति प्रागुत्पत्तेर्नियतकारणं कार्यं बुद्धया सिद्धम्, उत्पत्तिनियमदर्शनात् । तस्मादुपादाननियमोपपत्तिरिति । ओदनादिफलावच्छेदेति । यावता कालेन ओदनादिफलप्रादुर्भाव आदित आरभ्य तावत्कालावस्थायिन्येव पाका [26] दिक्रिया | ननु यदि बुद्धिः बुद्धयन्तरमुत्पाद्य विनश्यति तदा तज्जातीयपदार्थदर्शनानन्तरं सुखसाधनत्वात् स्मरणकाले तज्जातीयपदार्थदर्शनस्य विनाशात् स्मरणानन्तरमुपलभ्यानुवादेन परामर्शज्ञानं सुखसाधनत्वज्ञानं वा न स्यादित्याशङ्क्याह – विनश्यदविनश्यद्दशयोरिति । स्मरणसमये वध्यघातकन्यायेन विनश्यत्ता अतः तस्य विनाश इति । बुद्धिजन्म तत्प्रत्यक्षमिति । बुद्धेः जन्म उत्पत्तिः । अस्त्येकेन्द्रियगम्येष्विति । दूराद्धि कदाचिद जातिमात्रग्रहणं 'गौरयमायाति' कदाचित्तु [ गुणमात्रग्रहणं ] 'शुक्लोऽयं कश्चित्' इति । दीर्घामनन्त इति । दीर्घामित्यनेन भक्ष्यमाणायाश्चक्षुर्ग्राह्यतामप्याह, दैर्ध्याद् बहिर्भागस्य चक्षुषा ग्रहणात् । प्रत्यासन्नकारणान्तराभावेऽपीति । ज्ञानाद्यपि तत्र कारणमस्त्येव किन्तु मूर्च्छाद्यवस्थानन्तरकालं ज्ञानोत्पत्तौ तस्याभावादकारणत्वेनाव्यापकत्वम् । अतोऽन्येषां व्यभिचारात् तस्यैव सामर्थ्यावधारणम् । १ मी०सू० १. १. ४ । २ ये एकेन्द्रियप्रायास्तेषु कथमयुगपद्ग्रहणम् ? न हि तत्रासन्निहितं मनः । न्यायवा० १. १. १६ ( पृ० ८१ ) । ३ तुलना - युगपच्चतुष्टस्य तु वृत्तिः । सां०का०३० । बुद्ध हङ्कारमनसां हि बुद्धीन्द्रियाणां च समानदेशत्वम् । तत्र न शक्यत एतद्वक्तुं सति शक्तिसद्भावे विषयसम्बन्धे च कस्यचित् तत्र वृत्तिः कस्यचिन्नेति । किं चान्यत् । मेघस्तनितादिषु क्रमानुपलब्धेः । यदि हि क्रमेण श्रोत्रादीनामन्तःकरणस्य च बाह्येऽर्थे वृत्तिः स्यादपि तर्हि मेघस्तनितकृष्णसर्पालोचनादिष्वप्युपलभ्येत क्रमः । न तूपलभ्यते । युक्तिदी० पृ० १०९ । क्रमशोऽक्रमशञ्चेन्द्रियवृत्तिः सां०सू० २.३२ । द्र० स०प्रवच नभा० २. ३२ । युगपद् बुद्धघदृष्टेश्चेत् तदेवेदं विचार्यते । तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ तथा हि सम्यकू लक्ष्यन्ते विकल्पाः क्रमभाविनः । प्र०वा० २. ५०२५०३ । इन्द्रियज्ञानानि च समानजातीयानि क्रमवन्ति च दृश्यन्ते विकल्पेन्द्रियज्ञाने चक्षुःश्रोत्रादिज्ञाने च सहोत्पद्यन्ते । मनोरथ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy