SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ का०पृ०२३, वि०पृ०४५० ] न्यायमञ्जरीग्रन्थिभङ्गः १९१ अतद्विषयत्वेऽपि द्विचन्द्राविषयत्वेऽपि । सत्त्वं नानास्वभावत्वम् अर्थक्रियाभेदादेव, 'अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य भेदसिद्धेः । तस्यार्थक्रियाकारित्वस्य स्वभावस्याभेदे वा क्रियाणामभेदप्रसङ्गात् । तयोर्विरोधो युक्त्याऽप्यनुमानेनापि । विरुद्धे सत्त्वस्थिरत्वे धर्मिणी सह न भवत इति साध्यम्, विरुद्धत्वाच्छीतोष्णादिवत् । व्यापारा वेशवशेन वेति । स्वरूपाविशेषेऽपि कदाचित् कार्यजननात् प्राक् कार्योत्पत्तेर्व्यापारावेशः पदार्थस्यानुमानतो निश्श्रेय इति प्रागेव निर्णीतम् । अविचारकमिति । अर्थसन्निधिमात्रेण ज्ञानस्योत्पत्तेरविचारकत्वम् । तदुक्तम्“सन्निहितविषयबलोत्पत्तेरविचारकत्वम्”* [ ] इति । सङ्कल्पप्रायमेव तदिति । सङ्कल्पस्यानागतविषयत्वेन दर्शनात् तत्प्रायता । स्थिरत्वं तहि सुस्थितम् । एते (त) देव क्षणिकत्वं यतः । यथाहि - नीलाभावेति । नीलपरिच्छेदकं हि प्रमाणं तद्वि [ 10 ]रुद्धस्य नीलाभावस्येव तदविनाभूतानां पीतादीनामपि व्यवच्छेदं करोत्येव । तदभावाविनाभूतेति । वर्तमानाभावावि[ना] भूता ये भूतादय इति । वर्तमानैकनिष्ठतायाः पूर्व प्रदर्शितत्वादिति । अतीतविषयत्वे स्मृतितुल्यता, अनागतविषयत्वे सङ्कल्पप्रायतेत्यादि वदद्भिर्वर्तमानैकनिष्ठता प्रदर्शिता । अथ वर्तमानानुप्रवेशेनेति । अननुप्रवेशेऽसन्निधानाद यदि ग्रहणं अनुप्रवेशोऽस्त्वित्यभिप्रायः । अर्थ एव केवलः प्रकाशत इति । अर्थश्वानेकविषय एकोऽर्थ इत्यवतिष्ठते, न 'पूर्व प्रतिभात, इदानीं च प्रतिभासते' इति कालविशिष्टत्वेन । न च प्रतिपत्तिभेदेनैकत्वाभिमतस्य चन्द्रमसोऽनेकत्वमनेकदर्शनविषयत्वेऽप्यस्तीत्याशयः । न कश्चिद् वास्तव इति । वास्तवत्वे हि वस्तुस्वलक्षणवन्निर्विकल्पकेन प्रतीयेत । न च प्रतीयते । अतो निर्विकल्पोत्तरकालभाविसामान्यादिविकल्पवत् तद्विकल्पोत्पत्तेरवस्तुत्वम् । काल्पनिकेनापि च तेन व्यवहारः सिद्धयत्येव सन्तानादिनेव । एक एव क्षण [] इति । एकस्मात् क्षणात् । पूर्ववितत एककालः प्रतीयत इति । बहूनां क्षणानामस्मिन् प्रत्यये विश्रयणादीनां क्रियारूपाणां प्रतिभासनात् । नैतत् सारमिति । तत्र हि एकफलोत्पादकत्वेन १ अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् । प्र०वा० १.३ । २ तुलनार्थं द्र० सिद्धिविनिश्चय ३ ८; लघीयस्त्रय ३.११; अष्टल० पृ० ११९, कर्णगो० पृ०११०, न्यायवा· तात्प० पृ० १३७, भामती पृ०७६६ । ३ मुद्रितमञ्जर्या तु 'वितत एव कालः ' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy