________________
भट्टश्रीचकधरप्रणीतः
[ का०पृ०२३, वि०पृ० ४५१
वर्तमानक्षणसहचरिताः पूर्वापरभाविनः क्षणा वर्तमानतया व्यपदिश्यन्ते साक्षादवर्तमाना
अपि ।
१९२
क्षण दीर्घ इति । क्षणो हि परमापकृष्टा कालमात्रा भण्यते । स कथं दीर्घः ? दीर्घश्चेत् क्षणः कथमिति ।
'उपलम्भ एव भावानां सत्त्वमिति । यस्मिन् हि सति सदिति प्रत्ययस्तदेव सत्त्वम् । स च प्रत्ययः सदित्युपलम्भे सति भवति, अत उपलम्भ एव सत्त्वम् । एवमनुपलम्भोऽप्यसत्त्वमिति ।
बुद्धेरदीर्घकालत्वात् । भवद्भिरप्या [11] शुतरविनाशित्वाभ्युपगमाद बुद्धेः ।
स्थिरेणापि न बोधेनेति । तेनापि वर्तमानकालस्थितिरिव शक्त्या ( क्या ) ग्रहीतुं न कालान्तरस्थितिः । कालान्तरस्थितिर्हि तेन गृह्यमाणा तदनुप्रवेशेनान्यथा वा गृ । तदनुप्रवेशेन ग्रहणे एकक्षणग्रहणमेव । अननुप्रवे (वि) ष्टक्षणस्थितेर्न क्षणान्तरस्थितिः प्रतिभातीति नैकताग्रहः । न हि सकृदनेकक्षणस्थायिताग्रह इति ।
" त्वदभिमते मध्येऽपीति । यत्र त्वं न पश्यसि । न सर्वेषामनैव (षास् तवैव) तु केवलस्य । एष मा ग्रहीदिति । एषोऽन्यः ।
"
स्मरणप्रत्यभिज्ञेति । तुल्येऽपि मेदे कार्यकारणभावेन नियतत्वात् तत्रैब सन्ताने स्मरणादिकार्यं न सन्तानान्तर इति । दीर्घसंसारकारणम्, आस्थानिवृत्त्यभावात् ।
उपलब्ध्यव्यवस्थात इति । सदप्युपलभ्यते असदप्युपलभ्यत इति । न हेतुर्गन्धवत्त्ववत् । यथा गन्धवत्त्वं नित्यत्वेऽनित्यत्वे वा न हेतु:, तेन सहा [न्य ] त्रादृष्टेः, एवं सर्वस्य साध्यत्वात् सत्त्वस्य क्षणिकत्वेन सहान्यत्रादृष्टिः । एकवस्तुक्षणस्यापि एको यो वस्तुक्षणः । रूपभेदविरोधाच्चेति । न ह्येकमनेकरूपं भवति, अनेकरूपत्वे एकत्वविरोधाद् वस्तुनः काल्पनिकत्वं प्रसज्यते, विरुद्धस्वभावयोगेऽप्येकत्वे विश्वस्यैकता
१ मुद्रितमञ्जर्यां तु 'उपलम्भो हि भवेन्नासत्ता'' इति पाठः । २ मुद्रितमञ्जर्यातु 'तदभिमतोsपि' इति पाठः । ३ मुद्रितमार्या नास्ति ग्रन्थिरयम् । ४ एतेनैव प्रकारेण स्मृत्यादीना - मसम्भवः । एकाधिकरणाभावात् क्षणक्षयिषु वस्तुषु ।। अत्राभिधीयते सर्वकार्यकारणतास्थितौ सत्यामव्याहता एते सिद्धयन्त्येवं निरात्मसु ॥ तत्वसं० ५००-१: । ५ मुहिम तु 'एकवस्तु क्रमस्यापिं' इति पाठः ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org