SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९० भट्टश्रीचक्रधरप्रणीतः [का०पृ०१८, वि०पृ०४४५ च्छेदेन । यदा तु तृतीयो राशिः क्रमाक्रमरूपोऽभ्युपेयते तदैकस्य विरुद्धरूपद्वययोगिता युगपदिति'। कार्यादपि भेदाभेदाभ्यामिति । किं कार्यमेवोपकार उत तदन्य इत्यर्थः । लोके तथा व्यवहारादर्शनादिति । स्नान-भोजन-शयनादीनां युगपत् क्रियाया [9] अदृष्टेरित्यर्थः । तृतीयराश्यभावादिति । क्षणिकाक्षणिकापराया अभावात् । ननु व्यापकानुपलब्धि(ब्धे)रनुमानमिति। तथाहि-यथा सत्त्वं क्षणिकत्वसाधने व्याप्तिग्रहणमपेक्षते, अगृहीतव्याप्तिकस्य हेतोरगमकत्वात् ; एवं व्यापकानुपलब्धि(ब्धे:)रप्यनुमानत्वाद्] व्याप्तिग्रहणमवश्यापेक्षणीयम् , अनपेक्षणे वा क्षणिकत्वानुमानस्यापि न स्यादपेक्षणम् , अनुमानत्वाविशेषात् । अनुमानान्तरा[द्] व्याप्तिनिश्चय इति । ययोर्द्धर्मयोरविनाभावग्रहणाद् व्यापकानुपलब्धिः प्रवर्तते तयोर्नानुमानादविनाभावनिश्चयः, अपि तु प्रत्यक्षात् । तथाहि-येनैव दर्शनपृष्ठभाविना निश्चयेन 'इदमस्मादत्र' मि(इ)ति निश्चीयते तेनैव तदपि व्यवस्थाप्यते 'जनकस्य जन्यं प्रत्युत्पत्तौ सामर्थ्य क्रमेण योगपद्येन वा' इति ।। नित्यत्वनिवृत्तिरेव स्थिरत्वनिवृत्तिरेव । न नित्यत्वमिति । भवदर्शनेऽक्षणिकस्य सत्त्वेन दर्शनाभावात् । १ नैव प्रत्यक्षतः कार्यविरहाद् वा सर्वशक्तिविरहोऽक्षणिकत्वे उच्यते, किन्तु तद्व्यापकविरहात् । तथाहि--क्रमयोगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे विरोधात् निवृत्तेस्तव्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवति इति--'यत् सत् तत् क्षणिकमेव' इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति । ......अनुपलब्धिलक्षणप्राप्तत्वेऽपि प्रकारान्तरस्य क्रमयोगाद्ययोरन्यव्यवच्छेदरूपत्वादेवाभावसिद्धिः तथाहि--अन्योन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानात् तस्याप्रतिषेधे विधिप्रतिषेधयोर्विरोधादुभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः ? । अत्र प्रयोगः यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद्यथा--नीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयोगपद्ययोरन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानम् व्यवच्छियमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्च ततो बहिर्भावलक्षण इत्यनयोस्तत्त्वाऽन्यत्वरूपयोरन्योन्यपरिहारस्थितिलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कयाऽनवस्थानमाशङ्कनीयम् , पूर्वसिद्धस्य विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्धर्मिणि हेतोः सद्भावमुपदय विरोधसाधनमेव बाधकम्, तच्चेहास्ति । ततो विरुद्धयोरेकत्रासम्भवात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोरिव भावाभावयोरिव वेति कुतोऽनवस्था ? हेतुबि टी० पृ० १४६-४८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy