SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १६८ भट्टश्रीचक्रधरप्रणीतः [ का पृ०३६९, वि०पृ० ४०१ __ भवताऽन्विताभिधानमभ्युपगतमिति । ननु तात्पर्यशक्त्यनेभ्युपगमेऽप्यन्विताभिधानाभ्युपगमे को दोषः ? इत्याह-तच्च न युक्तमिति । सर्वत्राभिधान्याः शक्तेरविशेषादिति अन्विताभिधानाभ्युपगमे हि एकैकस्य सर्वार्थाभिधानशक्तिरविशिष्टा, अन्यथाऽभिधानाभावप्रसङ्गात् । ततश्च पदार्थयत्तावधारणं पदान्तरोच्चारणसाफल्यं च न सिद्धयति । तात्पर्यशक्त्यभ्युपगमे ह्येतावत्यभिधात्र्येव शक्तिर्न तात्पर्यशक्तिरित्यभिधातृशक्त्य[165A] पेक्षया पदार्थयत्तासिद्धिः, अत एव पदान्तरोच्चारणमपि सफलम् । तदन्वितार्थप्रतिपादनेऽभिधात्र्याः शक्तेरव्यापृतेरेकरूपशक्त्यभ्युपगमे तु किमपेक्षया नियमः ? किञ्च पदान्तरोच्चारणस्य फलमिति सर्वत्राभिधात्र्माः शक्तेरविशेषादिति यदुक्तं तदेव 'येनान्वितमभिवदति' इत्यादिना दर्शयितुमाह अन्वीयमानाभिधानमिति । पदार्थान्तरेणान्वयं गच्छन् पदार्थः पदैरभिधीयत इत्यत्र पक्षेऽन्वितस्यानभिधानात् पदार्थनियमानवधारणपदान्तरवैफल्यादिदोषानवकाशः । अभिधीयमानान्वयेति अभिहितान्वयपक्षे च यो दोषो वाक्यार्थस्याशाब्दत्वं सोऽप्यत्र नास्ति । अभिधीयमानानां शब्दैः प्रतिपाद्यमानानामभिधाविषयत्वमजहतां हि योऽन्वयः स कथमशाब्दः स्यादिति तदभिप्रायः । यत एव वान्वयं गच्छन्तः शब्दैरभिधीयन्ते अत एवाभिधीयमानानामन्वयः । अभिधानक्रिया चान्येति। अस्मिन् हि पक्षे शब्दश्चाभिदधदर्थश्चार्थान्तरेणानुलभ्येत (णानुयन् उपलभ्यते), तयोश्चोपलम्भः क्रमेण युगपद्वेतिः। दोषाः पक्षद्वयस्पृ165B]श इति । अन्वीयमानाश्चेदभिधीयन्ते तदेकेनैव पदेनेतरपदार्थान्वीयमानस्याभिधानात् पदान्तरनैरर्थक्यमित्यादि समानम्; अभिधीयमानानां चान्वये पुनरप्यशाब्दत्वम्, शब्दव्यापारस्य शुद्धाभिधानक्रियायामेवोपक्षीणत्वात् । दोषोऽन्विताभिधाने य इति । क्रियापदेन कारकसामान्यान्वितस्वार्थप्रतिपादनात् कारकपदनैष्फल्यादि समानम् । अथ कारकविशेषप्रतिपत्तये कारकपदोच्चारणं तत्राप्याह-दोषस्तुल्यो विशेषेऽपीति । पदानां सामान्यप्रतिपत्तावेव चरितार्थत्वाद् विशेषप्रतिपत्तेस्तद्वदेवाशाब्दत्वम्; विशेषान्वयस्यैव वाक्यार्थत्वादिति । न त्वन्वितमभिदधति एकैकशः । अन्यथैव प्रवर्तन्त इति । दूरात् सामान्यमात्रग्रहणे नियतव्यक्तिपरिच्छेदकारित्वाभावादपूर्णार्थप्रदर्शकत्वम् ।। सेयं व्युत्पत्तिमूलेति । [166A] पदानां या स्वार्थे व्युत्पत्तिः सङ्केतग्रहणं सैव मूलम्, तत उद्भूतेः । पदविसरा: पदसमुदायात् समुद्भिद्यमाना प्रक १ तात्पर्यशक्तिस्तु नैयायिकैः स्वीकृता । २ भाट्टाः शबरस्वामिप्रभृतयश्चाभिहितान्वयवादिनः । पदानि हि स्वं स्वं पदार्थमभिधाय निवृत्तव्यापाराणि । अथेदानी पदार्था अवगताः सन्तो वाक्यार्थ गमयन्ति । शाबरभा० १.१.७.२५ । पदार्थः पदविज्ञातैः वाक्यार्थः प्रतिपाद्यते । तन्त्रवा० २.१.१४.४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy