SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ का०पृ०३६८, वि०पृ०४००] न्यायमञ्जरीग्रन्थिभङ्गः १६७ तत्वादिति' । अतस्तादृशस्य ज्ञानात् सङ्केतस्मरणानुपपत्तिः । शङ्करस्वामी न्यायभाष्यटीकाकृत् । राज्ञा तु गहरेऽस्मिन्निति । कश्मीरे क्वचित् खसदेशे चिरकालमारण्यान्या मसौ श्रीशङ्करवर्मणो राज्ञ आज्ञया[164A]स्थितवानिति वार्ता ॥ यथैव व्युत्पत्तिरिति । स्मर्यमाणानामेव प्रत्याय्यप्रत्यायकत्वं सङ्केतग्रहणकाले गृहीतमिति । किं पूर्वपदतदर्थविषयेणेति । अन्त्यपदार्थस्य पूर्वपदार्थान्वितस्यैव प्रतिभासनादित्यन्विताभिधानाभिप्रायेण चोद्यम् । अथवा भट्टाभिप्रायेण अन्त्यपदार्थश्चेत् ज्ञातस्तत्पदैर्यत् कर्तव्यं तत् कृतमेव समाप्तः [पदव्यापारः] । पदव्यापारोत्पन्नपदार्थस्त्वाकाङ्क्षादिक्रमेणेतरपदार्थैः संसृज्यमानो वाक्यार्थतामासादयतीति एकाकारो हि वाक्यवाक्यार्थप्रत्यय इति । सङ्कलनाज्ञानेन विना भिन्नानां पदतदर्थानामेकाकारप्रत्ययजनकत्वासम्भवात् । भिन्ना ह्येकं किञ्चित् पूलीकारकं विना कथमभिन्नप्रतीतिविषयतामुपेयुः वृक्षा इवैकदेशपूलीकृता वनप्रत्ययस्य । __अन्यथा पदानां वाक्यत्वायोगादिति । वाक्यात् संसर्गस्य प्रतीतेः पदानां तदनभिधाने वाक्यत्वायोगः । न सर्वेषां वाक्यार्थे व्यापारः स्यात्, वाक्यार्थस्य संसर्गस्वभावत्वात् । न वैयाकरणवन्निमित्तान्यपीति । निमित्तानि पदतदर्थाः; यदुक्तम् “शाब्दैस्तु निमित्तमप्य[164B]पझुतम्” इति [ ]। य(प)दपदार्थानां वाक्यार्थप्रतिपत्तावगृहीतसङ्गतीनामपि व्यापारान्निमित्तशब्देनाभिधानम् । फलत इयं तत्र तत्रेति । पुरुषाकाङ्क्षोत्थापकत्वाच्छब्द आकाङ्क्षतीति कथ्यते । शब्दाख्यप्रमाणपृष्ठेनेति । शब्देनाकाङ्कायोग्यानामर्थानां प्रतिपादनाच्छब्द एवाकासाजनकः । तत्रापि बाधकानुपसर्पणादिति । अङ्गुल्यग्रादिवाक्येऽपि यच्छाब्दं कर्म शब्दव्यापारः समन्वयप्रतिपादनं तत्र नास्ति बाधकम्, शब्दोच्चारणमूलभूतज्ञानविषयत्वाद् बाधकस्य । १ मुद्रितन्यायमञ्जयां तु 'तादृशस्यागृहीतसम्बन्धत्वात्' इति पाठः । २ अन्विताभिधानवादिनः प्राभाकराः । 'पदेभ्य एव वाक्यार्थप्रत्ययो जायते यथा । तथा वयं निबध्नीमः प्रभाकरगुरोर्मतम् ॥।॥ पदैरेवाऽन्वितस्वार्थमात्रोपक्षीणशक्तिभिः । स्वार्थाश्चद् बोधिता बुद्धो वाक्यार्थोऽपि तथा सति । प्रधानगुणभावेन लब्धान्योन्यसमन्वयान् । पदार्थानेव वाक्यार्थान् सङ्गिरन्ते विपश्चितः ॥३॥ प्रकरणपं०, वाक्यार्थमा०१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy