SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ का पृ०३७७, वि०पृ०४०९] न्यायमञ्जरीग्रन्थिभङ्गः टीभवन्ती अङ्कुररूपाद्यवस्था यस्याः, पदानां तत्प्रतिपत्तिकारणत्वाव्यभिचारात् । संस्कारश्च पदार्थप्रतिपत्तौ सन्निकृष्टोपायत्वात् पत्रतया रूप्यते । पदार्थैः कुसुमचयवती, पदार्था एव कुसुमचयः पूर्वापेक्षया फलं प्रतिपत्तिः आसन्नत्वात् । . वेदस्य नान्यत' इति । अन्यतोऽपि रागादिमान् न वेत्ति, तस्यापि रागादिमत्त्वेन तत्तुल्यत्वात् । ___ अवीचिकेदारकुटुम्बिनमिति । अवीच्याख्यनरकक्षेत्रस्वामिनं तत्सम्बद्धमित्यर्थः । निसर्गत एवाक्षतकण्ठाः । व्याकरणादिपाठेन न क्षतः कण्ठो येषाम् । तदनुचरोऽपीति । भार्यादासादिर्येन सहासावालपति । क्व प्रकरणे पठिताविति । प्रयाजादिवत् । अथ न प्रकरणपरिपठितौ तत्किमनारभ्याधीतौ[166B] 'यस्य पर्णमयी जुहूः' [तैत्ति० सं० ३.५.७.२.] इत्यादिवत् । क्लप्ताधिकारौ 'चित्रया यजेत' [तैत्ति०सं० २.४.६.१] इतिवत् । कल्प्याधिकारौ वा विश्वजिद्वत् । असाधुरनुमानेनेत्यस्य पक्षान्तरप्रतिपादकमुत्तरमर्धम्____"वाचकत्वाविशेषेऽपि नियमः पुण्य-पापयोः” वाक्यप० ३.३.३०] इति । अनुमानेन असाध्वनुमितात् साधोरर्थप्रत्यय इति । । विशिष्टक्रियाकरणत्वमिति । अभिधानलक्षणां विशिष्टां क्रियां जनयन् शब्दो वाचकः, न प्रतीतिमात्रजनकत्वेन, तां च तादृशीं क्रियां साधुरेव जनयति नासाधुरिति । पारिभाषिकत्वप्रसङ्गादिति । एवंविधस्य साधुशब्दार्थस्य लोकेऽप्रसिद्धः। लवणोपयोगापनीतड्विकारोऽपीत्यनेनास्मद्विलक्षणस्वभावत्वं तस्य आह; अस्माकं हि लवणोपयोगात् तृड् वर्धते इति । नासाधोरप्रसङ्ग इति । अन्यनिवृत्तिफलो हि नियमो भवति । साधुः स्ववाचको भण्यते असाधुस्त्ववाचकस्ततस्तस्यावाचकत्वादेवासाधोरप्रसङ्गात् किं नियमेन ? इत्यर्थः । अथ प्रमादाशक्तिकृतेति । प्रमादकृतः 'अस्मकेभ्यः आगच्छामि' इति वक्तव्ये 'अस्मकैः आगच्छामि' इत्याह, [167A] अशक्तिकृतः 'कुमारी ऋतकः' इति १ प्र०वा०३.३१७। २ मुद्रितमञ्जयां तु 'ज्वालायोगोपनीत” इति पाठः । ३ तन्त्रवा० १.३.८.२४। २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy