SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ का०पृ०२७०, वि०पृ०२९६] न्यायमञ्जरीग्रन्थिभङ्गः १२९ त्तिस्तस्याः प्रविलयः । अन्यास्वपि कामचोदनासु फलार्थ या प्रवृत्ति [123A]स्तस्याः प्रविलयनमुत्तमफलार्थत्वेन, यानि प्रवृत्त्यन्तराणि तेषामपि प्रविलय इति प्रासङ्गिकफलप्रदर्शनद्वारेण च प्रदर्शित एव प्रपञ्चप्रविलय इति । उत्तम(मा)धिकारयोग्यत्वापादनादिति । यथा यथा हि प्राङ्नीत्या कर्मानुष्ठानद्वारेण परिपक्वकषायता भवति तथा तथा आत्मसाक्षात्कारयोग्यताऽस्य जायत इति । स्वाध्यायेन व्रतैरिति' । स्वाध्यायेनोपनयनाङ्गभूतेन प्रणवव्याहृतिगायत्र्यादिपाठेन । व्रतैर्वेदग्रहणार्थैरुपनयनोत्तरकालं सावित्रादिभिः । विद्येन त्रिवेदाध्ययनेन । इज्या गुरुशुश्रूषया । सुतैधर्मप्रजोत्पत्त्या । महायज्ञैः पञ्चभिः स्मार्तेर्भूतयज्ञादिभिः । यज्ञैश्च ज्योतिष्टोमादिभिः श्रौतैः । ब्राह्मीयं क्रिय[123B] ते ब्रह्मप्राप्तियोग्या क्रियते । ब्रह्मप्राप्तिपर्यवसायिनः [स्वाध्यायादयः । ब्रह्म चात्मा सिद्धस्वभाव एवेति । ननु ब्रह्मणः सिद्धस्वभावस्य प्रमाणान्तरग्रहणयोग्यत्वात् तत्परत्वे वेदान्तानामनुवादकत्वं प्राप्तम् । तत्स्वरूपस्य च स्वाध्यायाध्ययनादेवा[व]गते ष्प(फ)ल्यमित्याद्याशङ्कयाहआस्तां चायं विषय इति । किंतन्त्रता तस्येति । तयोः सिद्धसाध्ययोर्मध्यात् तस्य शब्दस्य कितन्त्रता किपरत्वमिति । ननु अधुनैव साधितं सिद्धपरत्वमिति, तत्र प्रागुक्ताभिप्रायेणैवाह-महतीयं चर्चा न चिराय न कदाचिदस्माकमुपयुज्यत इत्यर्थ इति । भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे चतुर्थमाह्निकम् ।। १ मनुस्मृ० २.२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy