SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ॥पञ्चमम् आह्निकम् ।। ॥ॐ नमः शिवाय ॥ उन्मत्तस्योन्मत्तसंवर्णनमिति । यथा उन्मत्त उन्मत्तान्तरं श्लाघत एवमल ब्यवृत्ति सामान्य तथाविधमेवालब्धवृत्ति द्रव्यं प्रदर्शयतीति । अनित्यानां त्विति । तन्तुपटादीनां युतेषु भिन्नेष्वाश्रयेषु समवायित्वं तन्तूनामंशुषु समवायात् पटस्य तन्तुष्विति' । विभूनां तु परस्परमाकाशादीनामिति । पृथागतिमत्त्व-युताश्रयसमवायित्वयोरभावात् । नानिष्पन्नस्य सम्बन्ध इत्यस्य पूर्वमधम्-'न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना' इति [श्लो०वा०प्रत्यक्षसू०१४६] । मुशिक्षितास्त्विति प्राभाकराः । ते हि सामान्याकारं रूपं पदार्थस्याहुः । न च रूपं रूपिशून्यमुपलभ्यते । पदार्थान्तराणां हि स्वरूपेण लब्धात्मलाभानामवगतानां च परस्परसम्बन्धचिन्ता क्रियमाणोपपद्यते, रूपस्य त्वाकृष्टरूपिप्रतिपत्तेरेव प्रतिपत्तिरिति अन्य एव सम्बन्धान्तरविलक्षणोऽयं सम्बन्ध इति काऽनयोः सम्बन्धं प्रति विमतिः “कथं वृत्तिः” इत्यादिकेति । तथा चाहुः-'सम्बन्धितया ह्यनवगम्यमानं सामान्य सामान्यम् इति नावगम्यते । सम्बन्ध्यन्तरसव्यपेक्षा हि सम्बन्ध्यन्तरबुद्धिः । विशेषतश्चात्र रूपतया सम्बन्धिताऽवगम्यते । न च रूपिशून्या रूपबुद्धिरस्ति। रूपतै[124]व तदा न स्यात्' इति [ ]। न चाप्यन्यतरेति । बुद्धिरध्यवसिततद्भावत्वेन भ्रान्तिः । शुक्ताविव रजतरू. पत्वेनाध्यवसितायाम् । अतद्रूपस्य ज्ञात्वापि केनचित् सादृश्यादिना तद्रूपाध्यारोपणमुपचारो 'गौर्वाहीकः' इति यथा । विचित्रविकल्पप्रवन्धेति । निर्विकल्पोत्तरकालं योऽयं गौर्गोंरित्यादिरबाह्यस्पर्शी विकल्पप्रबन्धः । अत एव न ते सम्यगिति । यथाऽस्तीत्येव वस्तुस्वलक्षणमवभाति पश्चाद् गौरिति विकल्पोदयस्तथा वस्तुग्रहणोत्तरकालमभेदस्य सत्तायाः प्रथा न प्रथमेति; एवं चाभेदवृत्ति सन्मात्रग्राहि प्रत्यक्षम् । सत्तायामगृहीतायां घटादिविकल्पाऽनुदयादिति सत्ताद्वैतवादिनो न सम्यग्वादिनः । १ यद्यपि तन्तवः पटव्यतिरिक्ताश्रये समवयन्ति तथाप्युभयोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वं नास्ति, पटस्य तन्तुष्वेवाश्रयित्वात् । न्याकं० पृ०३७ । २ नित्यानां तु युतसिद्धिः पृथगवस्थितिः, पृथगूगमनयोग्यता; सा ययोर्नास्ति तावत्तसिद्धौ......न्यायकं० पृ० ३८ । ३ प्रलोभ्वा० आकृतिवाद् ७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy