SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भ्रट्ट श्रीचक्रधरप्रणीतः [ का०पू० २७० वि० पृ०२९५ व्यतयोपदिश्यते, अतः प्रतिपत्तिविषयो यो नियोगस्तत्रैवास्य तात्पर्यम् उभयपरत्वे वाक्यभेदप्रसङ्गादिति । प्रमितेश्च प्रमेयनिष्ठत्वादिति । प्रमेयसाक्षात्कारं विना प्रतिपत्तिकर्तव्यताया एवासम्पत्तेरित्यर्थः । कर्मणि चायं कृत्यप्रत्ययेति । भावनाक यागेन स्वर्गं भावये [121A ] यथा तथा श्रुतेनात्मानं साक्षात्कुर्यादिति न पुनर्विधिक - णि विधेये सोमेन यष्टव्यमितिवत् । विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्य इति वा यथा कृत्यप्रत्ययः उपांशुयाजस्तुत्यर्थत्वेन तथेहात्र साक्षात् तस्यैव ज्ञानेन प्रेप्सितत्वात् । फलं तावद्विधेर्न विषय एव । स्वत एव तत्र प्रवृत्तत्वात् तथा चाह भाष्यकारः - ''वेदैवाऽसौ मयैतत्कर्तव्यमुपायं तु न वेद" इति [ ] । फलांश भावनायाश्चेत्यस्य शेषः-- "वक्ष्यते जैमिनिश्चाह तस्य लिप्सार्थलक्षणा" इति [ श्लो० वा० चोदनासू० २२३ ] । फांश एव न विधायकः करणेतिकर्तव्यतांशयोस्तु विधायक एवेति । " १२८ .... सत्यासत्यस्वभावेति । तथाहि यथा घटशरावोदञ्चनप्रभृतीनि नानारूपाणि अभिधानाभिधेयानि प्रपञ्चतो भेदव्यवहाररूपतया स्थितानि मृदपेक्षया असत्यानि, तेषामुपसंहारे केवलं मृद्रूपताप्रतिभासात् । सापि द्रव्यरूपतया असत्येव, मृदूपतोपसंहारे केवलद्रव्यरूपताप्रतिभासात् ; एवं सत्तापेक्षया द्रव्यरूपताप्यसत्येव । इत्येवं च सामान्यरूपः सन्मात्रं ब्रह्म इत्यस्तमितज्ञातृज्ञेय . '[121B] * इत्यत्र पुरुषसंस्कारकत्वेनोपयोगात् । तथा च श्रुतिः - " तमेतं वेदानुवचनेन [ब्राह्मणा] विविदिषन्ति, ब्रह्मचर्येण तपसा श्रद्धया यज्ञेन दानेनानाशकेन वा " इति [प्रश्नोप० १.२; हदा० ४.४.२२ ] । यज्ञेनेति यज्ञस्य विविदिषायामात्मज्ञानेऽङ्गत्वं प्रदर्शयति । तथा 'येन केन च यजेतापि दर्विहोमेनापहतपाप्मैव भवति' इति च । तथा च व्यासः - सबै कर्माखिलं पार्थ ज्ञाने परिसमाप्यते । ८ आरुरुक्षोर्मुनेर्योगं कर्म कारणमिष्यते ॥ इति [गीता ० ६.३] ॥ स्तोकस्तो प्रपञ्चेत्यादिना तन्निष्ठत्वमेव तत्र प्रदर्शयितुमाह । तत्र प्रपञ्चप्रविलयं केचिदेवमाहुः । तथा च ज्योतिष्टोमेन यजेतेत्यतस्तावच्छरीरव्यतिरिक्तो नित्य आत्मास्तीति प्रतीयते तेन शरीरेण स्वर्गा (र्ग ) स्यातुमशक्यत्वात् । अतो देह एवात्मेति यः प्रपञ्चस्तस्य प्रविलयः । तथा कलञ्जप्रतिषेधविधिरपि रागतो या प्रवृ १ भवाच्याम्यक्षराणि । २ १२२ पत्र नोपलभ्यते । ३ द्र० ब्रह्मसू०शां०भा० (भामतीसहितम् ) ११.१. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy