SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भट्टश्रीचक्रधरप्रणीतः [का०पृ०२४३, वि०पृ०२६६ ध्वस्तप्रज्ञानां पञ्चलिङ्गानि जाड्ये ॥इति।। [धर्मकीर्तेः] येऽप्यन्ये केचिदिति । नाथवादादयः । यथाहुःमाता च भगिनी चैव तथाऽन्या या स्वगोत्रजा । गम्याऽपरा त्वगम्येति नाथ एवं किलाब्रवीत् ॥इत्यादि।। वैदिकानर्थानन्तरान्तरे[103A]ति । वैदिकान् भूतदयादीन् । केचिद् विप्लावयन्त्यपि । यथा प्रतिपादितं 'कोऽयं महाजनो नाम' इत्यादि । पुरुषशीर्षेति । पुरुषशीर्षमुपदधाति, सुराग्रहं गृह्णाति, गामालभत इत्यादिषु । वचनान्तरविरुद्धम् । “नारं स्पृष्ट्वाऽस्थि सस्नेहम्" इत्यादिविरुद्धम् । एकत्र ते श्रेयसीति । निःश्रेयसे, सर्वेषां तदर्थत्वात् । कूटस्थनित्यत्वेति । आत्मा कूटस्थोऽविचलदूपः सन् नित्यः, ज्ञानसन्तानस्तु अविच्छेदेन प्रवहत्प्रवाह इति ।। कचिद्वा तद्भावेऽपीति । यथा नित्यानन्दस्यात्मनोऽवस्थानं मोक्ष इति केचित् , अन्ये चितिमात्रस्य परिशुद्धस्य चित्तसन्तानस्य, इतरे विशेषगुणवियुक्तस्यात्मन इत्युपेये भेदः । न च हृदयक्रोशनेति । हृदयक्रोशनं विचिकित्सा । , अन्यदर्शनाभ्यासेति । पुनः पुनः यदभ्यस्तं 'नारं स्पृष्ट्वाऽस्थि सस्नेहम्' इत्यादिदर्शन तत्संस्कारवासितान्तःकरणानाम् । भवतु कामं हृदयोत्कम्पः, तस्यां हिंसायां विधेरख्यापारात् । कथमव्यापा रश्चेत् तदाह-करणांशोपनिपातिनी हीति । 'श्येनेनाभिचरन् यजेत'इत्यत्र हि श्येनयागाभिचारयोरुपायोपेयतापरिज्ञानमात्रेऽधिकारे विधेापारः, प्रवृत्तौ तु तत्र विधिरुदास्ते लिप्मातस्तत्र प्रवृत्तिसिद्धेः । तदुक्तम्-'यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणा' इति मी० सू० ४. १. २.] । क्रत्वर्थः पुनः क्रतूपकारको योऽग्नीषोमीयपश्वालम्भादिस्तस्य फलं प्रति करणत्वस्य साक्षादनवगमात् तत्र लिप्सातः प्रवृत्तेरभावः, प्रवृत्ती चासत्यां सेतिकर्तव्यताकस्य क्रतोरनिर्वाहात् । तत्र शास्त्रविधिरेव प्रवर्तकः । तदुक्तं भाष्यकृता "ऋत्वर्थो हि शास्त्रादवगम्यते" इति [शाबरभा० ४. १. २.] । अतोऽसावभिचारोऽवैधः शास्त्राविहित इति । तथाऽप्यधिकारिभेदेनेति । यस्तज्जन्यफलकामस्तदपेक्षया । शत्रा लडिन्तनिषेधमिति । अभिचरन्निति हि शतृप्रत्ययो लक्षणे । लक्षणं च पूर्वसिद्धं भवति । 'शयाना भुञ्जते यवनाः' इति शयनस्य पूर्वसिद्धस्य लक्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy