________________
का०पृ०२४९, वि०पृ०२७३] न्यायमञ्जरीग्रन्थिभङ्गः स्वात् । मरणकामस्य सर्वस्वार इति । 'सर्वस्वारेण मरणकामो यजेत' । [आयुष्कामेति । 'शतकृष्णलं चरुः(5) प्राजापत्यमायुष्कामो निर्वपेत्' इति । 'मन्वादिचोदनान्यायः स यद्यपि [104A] न विद्यते' इति शैवादिप्रामाण्यसमर्थनावसरे यत् किचित् सृष्टं तदिदानीं सर्वागमप्रामाण्यप्रतिपादनावसर उद्घाटयति - अपरे पुनर्वेदमूलत्वेनेति । अजामेकामिति । "अजामेकां लोहित कृष्णशुक्लां बहीः प्रजाः सृजमानां सरूपाः । अजो ह्येको भजमानोऽनुशेते जहाति चैनां भुक्तभोगामजोऽन्यः ।" श्वेता उप० ४. ५] इति । अत्र लोहितशुक्लकृष्णग्रहणेन रजःसत्त्वतमोरूपतां तस्या आह । अनुशेते पुनः पुनस्तया सम्बन्धं भजते । मुनयो वातरशना इति' । वात एव रशना वासो ग्रन्थनं येषां ते वातरशना अतो वाससोऽभावादेव वातस्तेषां रशना मत एव निर्ग्रन्था भण्यन्ते । रसना इति तु पाठे रस्यत आस्वाद्यत इति रसनं वात एव रसनं येषां वायुभक्षा इत्यर्थः । एवं रक्तपटपरिग्रहेति । तथाहि रक्तपटदर्शनसंस्थोपनिषदाक्यमुदाहरति- "पोल्कसोऽपौल्कसश्चाण्डालोऽचाण्डालो ब्राह्मणोऽब्रामणः श्रमणोऽश्रमणः" इत्यादि [यह ० उप० ४. ३. २२] तद्दर्शयति । प्रसिद्धामलमार्गप्रवृत्तं श्रमणमाचक्षते, 'श्रामण्यममलो मार्गः' इति हि ते आहुः [104B]............।'
.... .... च निषेधेन निवर्त्यते तथा निन्दयाऽपीति समा वृत्तिः । इतरप्रशं. सार्थमपि निन्दा भवति यथा 'प्राप्य गाण्डीवधन्वानं विद्धि कौरव तान् स्त्रियः' इति न केवलं प्रतिषेधायेति यो मन्येत तमपि प्रत्याह-न हि निन्दा निन्धं निन्दितुमि
त्यादि।
त्रिः प्रथमामिति । सामिधेन्यः समिधामग्नौ प्रक्षेपणमन्त्राः, तस्य प्रक्षेपणाख्यस्य कर्मणो हि प्रकाशकोऽसौ मन्त्रः, तच्च सकृदुच्चारितेनापि तेन शक्यते क प्रकाशनमिति त्रिरुच्चारणं पुनरुक्तम् । एकादश च ते मन्त्राः पठ्यन्ते, 'पश्चदश सामधेनीरनुक्र(ब)यात्' इति च श्रूयते, अतः प्रथमोत्तमयोस्त्रिरुच्चारणं पश्चदशसस्यासम्पत्त्यर्थ क्रियते ।
१. मुनयो वातरशनाः पिशङ्गा वसते मला । ऋग्वेद १०.१३६.२ । वातरशना: वातरशनस्य पुत्राः । मुनयः अतीन्द्रियार्थदर्शिनो जूतिवातजूतिप्रभृतयः । सायणमा० । २. पत्र १०५ नोपलभ्यते । ३. शाबरभा० २. ४. २. २१ । ४ प्रकृतावभ्यासेन सख्या पूरिता, त्रिः प्रथमामन्वाह त्रिरुत्तमामिति । कथम् ? पञ्चदश सामिधेन्य इति श्रतिः । एकादश च समाम्नाताः । तत्राभ्यासेनाऽऽगमेन वा सङ्ख्यायां पूरयितव्यायामभ्यास उत्तः । त्रिः प्रथमामन्वाह, त्रिरुत्तमामिति । अनेन नियमेन प्रथमोत्तमयोरभ्यासः वर्तव्य इति । शाबरभा० १०.५.८.२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org