SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ का०पृ०१४३, वि०पृ०२६६] न्यायमञ्जरीग्रन्थिभङ्गः ११३ ज्ञायतेऽनेनेति व्युत्पत्त्या विद्यापर्यायेण ज्ञानशब्देन वेदसमकक्षतया निर्दिशन् पञ्चरात्रादीस्तेषां वेदवत् प्रामाण्यमभ्यनुजानाति । तथा द्रोणपर्वणि पितृवधामर्षितमश्वत्थामानं स्वयमेव सान्त्वयितुं "भवता लिङ्गमूत्यै [तिः] शिवो नार्चितो यथा केशवार्जुनाभ्यां प्राग्भवेऽर्चितः, अतो न पराजेतुं शक्यो भवता । विरम्यतामतोऽसद्ग्रहात्" इति भङ्ग्या शैवशास्त्र प्रसिद्धलिङ्गार्चनस्तुति वदता तच्छास्त्रप्रामाण्यमनुमन्यते । दानधर्मेषु च तच्छास्त्रप्रसिद्धां दीक्षामुपमन्युना कृष्णाय प्रतिपादितां दर्शयंस्तदेव शैवशास्त्राणां प्रामाण्यं स्फुटीचकार । मो[101B]............'त्यथर्वशिरसि मूलमन्त्रभृतोऽप्युपलभ्यत [एव] । बौद्धादीनां तु त्रैवर्णिकानादराद् बेदमूलत्वानभ्युपगमाच्च नायं नयः समस्तीति । तदेवं मीमांसकदृष्टया नैयायिकमताश्रयणेन व्यासादिवेदव(वि)दृष्टया च स्मृतिवच्छवादिशास्त्रप्रामाण्यमिति सिद्धम् । संसारमोचका' इति । ये घूकचटकन्यायेन प्राणिवधं धर्ममिच्छन्ति । निषिद्ध सेवनप्रायमिति । यदुक्तम् विनधारा मृतं चैव मेदो रुधिरमेव च । पवित्रं भैरव तन्त्रे साधकानां न संशयः ॥इति।। ततो यद्यपि सिद्धिः स्यादाकाशगमनादिका । निरस्ते हि जातिवादावलेप इति । ब्राह्मणोऽस्मीति यो जातिबादस्तत्वतोऽवलेपो दो जातिवादावलेपः । यदाह वेदप्रामाण्यं जातिवादावलेपः ।। तीथे स्नानेच्छा कस्यचित्कतवादः । स(सं)तामा(पा)रम्भः पापहानाय चेति १. १०० पत्रं नोपलभ्यते । २. संसारमोचकादेश्च हिंसा पुण्यत्वसंमता। प्रलो० वा. औत्पत्तिकसू० ५। अधर्मनिबन्धने प्राणिवधे धर्मनिबन्धनबुद्धिविपर्ययः संसारमोचकानाम् । स्याद्वादरना० प्र० १०३। एतेन संसारमोचकाना व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशलमागप्रत्तत्वमावेदितं द्रष्टव्यम् यतस्त एवमाहुः- यत् परिणामसुन्दरं तदापातकटुकमपि परेषामाधेयं, यथा रोगोपशमनमौषध, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि-कृमिकीटपतङ्गमशकलावकचर ककुष्ठिकमहादरिद्रान्धपवादयो दुःखितजन्तवः पापकर्मोदयवशात् संसारसागरमभिप्लवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकारकरसिकमानसेन न्यापादनीयाः, तेषां हि व्यापादने महादुःखमतीवोपजायते, तीवदुःखवेदनाऽनुभवतः प्रारबद्धं पापकर्मोदोर्योदीर्यानुभवन्त: प्रतिक्षिपन्ति...। नन्दिसूत्रमलय० वृ० पत्र १३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy