SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ का पृ०२२९, वि०पृ०२५०] न्यायमञ्जरीग्रन्थिभङ्गः तव शक्तिपर्यन्ता व्युत्पत्तिरिति । व्युत्पत्तिः शक्तिद्वयनियमलक्षणसम्बन्धावगम इति । यथोक्तम्-"अन्यथानुपपत्त्या च वेत्ति शक्ति द्वयाश्रिताम्" [श्लो० वा. सम्बन्धाक्षेपपरिहार १४१] । अन्यथाप्युपपत्तेरित्युक्तत्वादिति । 'अयमस्य वाचकः अयं च वाच्यः' इत्येतावन्मात्रव्युत्पत्तावप्युपपत्तेः । शब्दब्रह्म इति । शब्दब्रह्मणोऽनादिनिधनस्यायमाद्यो विवर्ती वेदाः न पुनः केनचित् कृता इति वैयाकरणा यदाहुः-त्रयीरूपेण तज्ज्योतिः प्रथमं परिवर्तते" [वाक्यप० १. १ स्वोपज्ञ०] इत्यादि तदिदमपवर्गाहिनके निराकरिष्यते । अतिरभसोज्जिहानेष्विति । अतिरभसेन साटोपमुपगच्छत्सु । अर्धजरतीयं [86A]स्यादिति । यथा जरत्या अर्घ जघनमेव कामयतेऽर्धे न वदनादि । अथवाऽन्नादिसंस्कारचातुर्येण तां कामयते भद्रिका प्रतिपद्यते न तूपभोगेनेत्यर्घजरतीयम् । तत्परिमाणानामिति । अस्य द्रव्यस्येयान् भागोऽस्येयानिति । यथा 'कर्षः कर्षोऽर्धपलं पलत्रयं स्यात् , तथार्धकर्षश्च । मरिचस्य पिप्पलीनां दाडिमगुडयावकशूकानाम्' इत्यादौ परिमाणविशेषः संयोगविशेषश्च । न च स्मृतावन्धपरम्परादोषः कस्यचित् साक्षाद् द्रष्टुरभावादिति । यथा कुम्भं करोतीति कुम्भकार इत्यत्र “कर्मण्यण" [पाणिनि ३.२. १] तथा हिमवन्तं शृणोतीत्यत्र कस्मान्न भवतीति चोदिते सत्याह-इह न भवत्यनभिधानादिति । ते तु प्रत्यक्षेणैव सर्व विदितवन्तो न पुनरनुमानागमाभ्यामपीति । अविदुषामुपदेशो नावकल्पत इत्यनया युक्त्या विद्वांसः कल्पन्तां नामेति । एवं फलवेदादा[वि]ति । फलवेदः शस्यपालशास्त्रम् । तद्व्याप्तिग्रहणं जने यदीति । लोके सत्यार्थमाप्तप्रणीतं वचो दृष्टम् , वचनमपि च सत्यार्थम् , तस्मादाप्तप्रणीतमिति । मृषाऽऽयुर्वेदसङ्कीर्तनम् । येन १ 'पृथक्तीर्थप्रवादेषु दृष्टिभेदनिबन्धनम्' इत्यस्यापरमर्धम् । २ एवमपि यथैव पारम्पर्येणाविच्छेदादयं वेद इति प्रमाणमेषां स्मृतिरेवमियमपि प्रमाणं भविष्यतीति । नैतदेवम् । प्रत्यक्षे. णोपलब्धत्वाद् ग्रन्थस्य नानुपपन्नं पूर्व विज्ञानम् । अष्ट कादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् न्यामोहस्मृतिरेव गम्यते । तद्यथा कश्चिज्जात्यन्धो वदेत् स्मराम्यहमस्य रूपविशेषस्येति । कुतस्ते पूर्वविज्ञानमिति च पर्यनुयुक्तो जात्यन्धमेवापरं विनिर्दिशेत् । तस्य कुतः ? जात्यन्धान्तरात् । एवं जात्यन्धपरम्परायामपि सत्यो नैव जातुचित् संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति । शाबरभा. १.३.१.१. । ३. शबरभा० १. १. २।४ मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रामाण्यमाप्तप्रामाण्यात् । न्या०सू०२.१.६८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy