SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२२४, वि० पृ०२४५ समाश्रयणेनार्थान्तरं कल्पनीयमिति । तत्राशिष्टाचारत्वान्म्लेच्छ व्यवहारस्य वरं व्याकरणादिनैवार्थकल्पनेति पूर्वपक्षयित्वोक्तम् "अशिष्टैरपि यच्चोदितं शिष्टानवगतं तदपि प्रतीयेत प्रत्येतव्यं प्रमाणेनाविरुद्धं सत् न चात्र म्लेच्छप्रसिद्धयाश्रयणे कश्चित् प्रमाणविराधः" इत्यर्थः' “चोदितं तु प्रतीयेत" इति सूत्रस्य [ मी० सू० १-३-५-१०] । पिकः कोकिलः । नेमोऽघ (र्ध) म् । तामरसं पद्मम् । अवेष्टयधिकरणे चेति । ' अष्टौ यज्ञसंयोगात् क्रतुप्रधानमुच्यते " [मी० सू० २.३.२.३] इत्यत्रावेष्ट्यधिकरणे । अत्र हीयं चिन्ता कृता । 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यत्र नानापशुसो - मेण्टसमुदायात्मक राजसूयाख्ययागमध्येऽवेष्टिर्नामेष्टिराम्नाता । " आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा [85A]. ऐन्द्रमेकादशकपालमृषभो दक्षिणा, वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा, मैत्रावरुणीमामिक्षां वशा दक्षिणा, बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा" [तै. सं. १.८ १९] इति पञ्चेष्टिसमुदायात्मिका । तामेतामवेष्टिमधिकृत्याह-एतयान्नाद्यकामं याजयेदिति । पुनश्च तामेवाधिकृत्य श्रूयते - “यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुति माहुति हुत्वाऽभिघारयेत्, यदि वैश्यो वैश्वदेवम्, यदि राजन्य ऐन्द्रम्" इति [ मै. सं. ४ ४ ९] तत्र संदेह: - किं राज्यस्य कर्ता राजेति व्युत्पत्तिसमाश्रयणेन जनपदपुरपरिपालनरूपराज्यकर्तृत्वेन ब्राह्मणवैश्ययोरपि राजशब्दयोगसम्भवाद् राजसूयेऽधिकाराद् बार्हस्पत्यादिमध्यनिधानादिलक्षणस्य गुणस्य विधौ ब्राह्मणत्वादिजातिनिमित्तत्वेनोपादानम्, आहोस्विद् अ ( आ )न्ध्रेषु क्षत्रियजातौ राजशब्दप्रयोगात् तदाश्रयणेन ब्राह्मणवैश्ययोरप्राप्तत्वाद् एतयान्नाद्यकामं याजयेदिति विशि[85B]ष्टफलकामयोस्तयोर पूर्वोपदेश इति । तत्र पूर्वपक्ष:- आर्यप्रसिद्धयनुग्रहात्, राज्यकर्तरि राजशब्दप्रयोगसामर्थ्यानिमित्तार्थत्वेन ब्राह्मणाद्युपादानं समर्थितम्, सिद्धान्ते तु अ (आन्ध्रप्रयोगाश्रयणेनाप्यार्यप्रसिद्धेर्बाधात् तत्समाश्रयणेन क्षत्रियजातावेव राजशब्दप्रयोग इति निश्चित्यापूर्वविधिरेवेति स्थापितम् । सूत्रार्थस्तु अवेष्टौ ब्राह्मणादिप्रतिपादनं क्रतुप्रधानमप्राप्तमेव तयोर्यज्ञकर्म विधातुम्, कुतः ? यज्ञसंयोगात्, राज्ञो हि क्षत्रियस्य राजसूययज्ञेन संयोगः सम्बन्धो न तयोः, अतोऽप्राप्तविधिरेवायं ब्राह्मणवैश्ययोरित्यर्थः । ૨ ९८ यथा १ अथ यान् शब्दान् आर्या न कस्मिंश्चिदर्थे आचरन्ति म्लेच्छास्तु कस्मिंश्चित् प्रयुञ्जते पिक नेम सत- तामरसादिशब्दास्तेषु संदेहः - किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्य त यत्र म्लेच्छा आचरन्ति स शब्दार्थ इति । .... चोदितमशिष्टैरपि शिष्टानवगतं प्रतीयेत यत् प्रमाणेनाविरुद्धं तदवगम्यमानं न न्याय्यं त्यक्तुम् । शाबरभा० १.३,५०१० । १ ६० शाबरभाष्यं तन्त्रवार्तिकं च (२.३.२.३) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy