SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आराधनासारः wwwwwwwwww नग्नीभूतः स्थितोसि । किं विधेकविकलस्य नग्नत्वमभिप्रेतार्थसिद्धये भवति । नग्नाः किं वृषभा न भवन्ति यतः सत्पुरुषो बालतनयमकार्यशतमपि कृत्वा प्रतिपालयति । यदुक्तम् वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अपकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ तन्नग्नीभूय किं साधिताअथ सा तद्गुरुमप्येवमुपालम्भतवती भो मुने भवतामुं भार्यापुत्रयोः प्रतिपालकं श्रेष्ठिनं दीक्षयता अपरीक्षितमकारि । यदुक्तं अपरीक्षितं न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥ ततः कोपावेशवशंवदया तया गुरुशिष्यौ 'महे अस्मिन् पुरे च प्रवेशो न कर्तव्य ' इति निषिद्धौ इति जयावतीदुर्वचनकुठारैर्भिद्यमानमपि मुनिमनो न क्षोभमानम् । यदुक्तम् - लोक एव बहुभावभावितः स्वार्जितेन विविधेन कर्मणा । पश्यतोस्य विकृतीजेडात्मनः क्षोभमेति हृदयं न योगिनः ॥ अथ परमोपशमसरःस्नानशामितकोपतापौ तौ त्वरितं देशांतरमीयतुः । तत्र च सिद्धार्थो मुनिः गुरुपादांते कानिचित् श्रुतपदानि अभ्यासीत् अज्ञानमयं तमोविनाशमनैषीत् । अथ बहुषु वत्सरेषु अतीतेषु सिद्धार्थों मुनिर्गुरुमापृच्छ्य तामयोध्यामयासीत् । पूजापुरस्सरं सर्वो हि पौरो धर्मार्थी तं मुनिराजं प्राणसीत् । सुकोशलोपि मुनिदर्शनसंभवदमंदानंदः स्वजननीमप्राक्षीत् । मातरस्य दर्शनात् मम मनोऽत्यंत प्रसीदति नेत्रे च तृप्यतस्तदयं कः कस्मादुपागतश्च । माता च कालुष्यवांतस्वांता न किंचिद्वदतिस्म । ततो धात्री प्रोवाच । भो तनय इमं मुनिमात्मीयं जनकं जानीहि । त्वन्मुखमवलोक्यैव तपसे जगाम । सुकोशलोपि इदं पितृचरित्रं श्रुत्वा सद्योविषयविरतोऽजनि । यदुक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy