SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। स्वीकरिष्यतीति मत्त्वा गृहमध्य एव स्थाप्यते न बहिर्निष्कास्यते कदाचित् । अथ सुकुमालमात्रा मुनिरागत्य प्रोक्तस्त्वया अत्र न स्थातव्यं । तद्वचनं श्रुत्वा मुनिमौनमाश्रित्य स्थितः । अथ प्रभातकल्पायां निशि ऊर्ध्वलोकप्रज्ञप्ति पठन् मुनिः सुकुमालेनाश्रावि, अहमच्युतेंद्रोऽच्युते एतादृशानि सुखान्यालप्सि इति सस्मार सुकुमालः । ततस्तत्क्षणजातिस्मरः ज्ञातस्ववृत्तांतो मुनिसमीपमीयिवान् । यतिरपि तं धर्मोपदेशामृतेन संतोष्य न्यगदीत् । वत्स तवायुर्दिनत्रयमेव तत्त्वं परलोकसाधनोपायमाचर । सुकुमालोप्यासन्नभव्यत्वातत्क्षणसंजातवैराग्यो मुनिमानम्य दीक्षां जग्राह । ततो नगराद्वहिरुद्याने सुकुमालो मुनिर्दिनत्रयं यावत् गृहीतसंन्यासो योगमास्थाय तस्थिवान् तत्रैव वने सा अग्निभूतिभार्या बहूनि भवांतराणि पर्यट्य शृगाली बभूव । अथ तं मुनिमालोक्य भववैरसंबंधेन संस्मृतभवांतरचरित्रा तत्क्षणसमुद्भूतामर्षा सा शृगाली तमारभ्य खादितुं प्रवृत्ता । सुकुमालो मुनिरपि परमसाम्यमारूढः सम्यग्दर्शनज्ञानचारित्राविनाभृतचिदानंदध्यानसामर्थ्येन सर्वार्थसिद्धिं जगाम ॥ १ ॥ अथायोध्यापुर्या सिद्धधर्मार्थः सिद्धार्थो नाम श्रेष्ठी तस्य मनोवल्लभा वल्लभा जयावती । तयोः पुनः कलाकुशलः सुकोशलोऽजनि । यदुक्तम्-- . किं तेन जातु जातेन मातुयावनहारिणा । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ प्रसादसदनं नंदनस्य वदनमालोक्य सम्यग्दृष्टिः स श्रेष्टी समाधिगुप्तनानो मुनेः पादांते प्रावाजीत् । यदुक्तं-- विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । भीतः संसारतो भव्यस्तपश्चरति दुश्चरम् ॥ . अतो जयावती श्रेष्ठिनी गृहीतदीक्षां भर्तारं कर्णिकयाकर्ण्य गत्वा च तमेवं ततर्ज । रे दुराचार कुलपांसन बालतनयप्रतिपालनं कर्तुमशक्तस्त्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy